________________
४०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व गोशालसहितं नाथमागच्छन्तं ददर्श सः । चौरावित्याशशङ्के च तादृशामीदृशी हि धीः ॥५५०॥ कौ युवामति सोऽपृच्छत् स्वामी मौनीत्युवाच न । केलिप्रियत्वाद् गोशालोऽप्यस्थान्मौनी प्लवङ्गवत् ॥५५१॥ गोशालं स्वामिनमपि स बद्ध्वा भ्रातुरार्पयत् । स्वामिनं दृष्टपूर्वी च मेघ: सिद्धार्थसेवकः ॥५५२।। क्षमयित्वाऽमुचन्मेघो नाथं नाथोऽपि चाऽवधेः । ज्ञात्वाऽचिन्तयदद्यापि निर्जार्यं बहु कर्म मे ॥५५३।। कर्माऽसहायैस्तन्मन्ये न हि क्षय्यं झगित्यपि । जय्यं महद् द्विषच्चक्रं विना न खलु सैनिकैः ॥५५४|| आर्यदेशे विहरता सहाया दुर्लभा मया । तस्मादनार्यदेशेषु विहरिष्यामि संप्रति ॥५५५।। पाएवं विमृश्य भगवान्निसर्गक्रूरपूरुषम् । विवेश लाढाविषयं यादो घोरमिवाऽर्णवम् ॥५५६।। मुण्ड इत्यहनन् केऽपि स्पश इत्यपरेऽधरन् । बबन्धुर्दस्युरित्येके श्रीवीरं तत्र पूरुषाः ॥५५७|| भषणान्मुमुचुः केऽपि प्रतिस्वामि कुतूहलात् । चक्रुः स्वरुच्या निशङ्कमन्येऽन्याश्च विडम्बनाः ॥५५८।। अमोदतोपसर्गस्तैः कर्मणां क्षपणात् प्रभुः । अत्युग्रैर्भेषजै रोगी रोगनिग्रहणादिव ॥५५९॥ गोशालोऽप्यनुलग्नः सन् सेहे विविधवेदनाः । बन्धन-ताडनाद्युत्था वनानीत इव द्विपः ॥५६०।। पातत्रैवं भूरिशः कृत्वा कर्मनिर्जरणां प्रभुः । कृतकृत्य इवाऽचालीदार्यदेशस्य संमुखम् ॥५६१॥ यान्तं च स्वामिनं पूर्णकलशग्रामसन्निधौ । प्रवेष्टुकामौ लाढो| तस्करौ द्वावपश्यताम् ॥५६२।। तावसौ दु:शकुनमित्युद्यतासी जिघांसया । प्रति प्रभुं दधावाते प्रेतावुत्कत्रिकाविव ॥५६३।। वर्ततेऽद्य कथं स्वामीत्युच्चिन्तो वज्रभृत्तदा । ददर्शाऽवधिना नाथं जिघांसू तौ च तस्करौ ॥५६४॥
तौ वज्रेणाऽवधीद्वजी वज्रशैलक्षमौजसा । दन्तिक्षोदक्षमेणेव पाणिना हरिणौ हरिः ॥५६५।। पाक्रमेण भद्दिलपुरे स्वाम्यगात्तत्र पञ्चमीम् । निन्ये वर्षाचतुर्मासी चतुर्मासीमुपोषितः ॥५६६।। पारयित्वा बहि: क्वापि विहरंश्च प्रभुः क्रमात् । ग्रामे जगाम कदलीसमागम इतीरिते ॥५६७।। तत्राथाऽऽस्तारिकाभक्तं दीयमानं तदाऽर्थिनाम । विलोक्योवाच गोशालो स्वामिन्नेह्यत्र भज्यताम ॥५६८। सिद्धार्थोऽभिदधेऽस्माकमुपवासोऽद्य वर्तते । भोक्ष्येऽहमेकोऽपीत्युक्त्वा तत्र गोशालको ययौ ॥५६९।। भुञ्जानस्तत्र गोशालः पिशाच इव नाऽतृपत् । ग्राम्याः स्थालं महत् सर्वान्नपूर्णं तस्य चाऽऽर्पयन् ॥५७०।। तद्भक्तमखिलं भोक्तुं गोशालो न ह्यभूत् क्षमः । आकंठमात्ताहारो यदाचामेऽप्यलसायते ॥५७१।। स्वाहारशक्तेरप्यज्ञः किं दुष्कालोऽसि मूर्तिमान् ? इत्युक्त्वा चिक्षिपुर्भक्तस्थालं तन्मूलि तज्जनाः ॥५७२।। तुन्दं परामृशंस्तृप्त्या गोशालोऽगाद्यथागतम् । जम्बूखण्डाभिधं ग्रामं जगाम भगवानपि ॥५७३।। प्रतिमास्थे प्रभौ तत्राऽऽस्तारिकाभक्तलिप्सया । गतो गोशालकः प्राग्वत् प्राप भोजन-धर्षणे ॥५७४।। पाक्रमेण प्रययौ स्वामी तुम्बाके सन्निवेशने । बहिश्चाऽस्थात् प्रतिमया गोशालो ग्राममभ्यगात् ॥५७५।। तत्र पार्श्वशिष्यान्नन्दिषेणान् वृद्धान् बहुश्रुतान् । परिवारभृतो मुक्त्वा गच्छचिन्तामशेषतः ॥५७६।। जिनकल्पप्रतिकर्म प्रपन्नान्मुनिचन्द्रवत् । दृष्ट्वा जहास गोशालः स्वाम्यभ्यर्णमगात्पुनः ॥५७७॥ (युग्मम्)
१. वानरवत् । २. निर्जर्यं मु. । ३. जगत्यपि खं. १ । ४. लाट० मु. । लाटा० खं. १-४ । ५. यादः-जलजन्तुः । ६. इत्यहसन् खं. ४ । ७. गुप्तचरः । ८. शुनः । ९. स्वाम्युपरि । १०. लाटोल् मु. । ११. ०वुत्कतिका० खं. १ । १२. भद्रिलपुरे खं. १-३-४ । १३. तत्र चास्ता० खं. १-३ । १४. ०मार्ताहारो खं. १ । ०मानाहारो मु. । १५. आचमनेऽपि ।