________________
तृतीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । एत्येष वह्निर्भगवन्नश्य नश्येत्यथ ब्रुवन् । काकनाशं प्रणश्याऽगाद् गोशालः शीघ्रमन्यतः ॥५२४|| श्रुत्वापि तद्वचः स्वामी ध्यानानलमिवाऽनलम् । तं कर्मेन्धनदाहाय मन्वानोऽस्थादतिस्थिरः ॥५२५।।
चरणौ स्वामिनस्तेन वह्निना ध्यामलीकृतौ । हैमनेन तुषारेण पद्मकोशाविवाऽधिकम् ॥५२६॥ पाशान्ते वह्नौ सगोशालो ग्रामेऽगाल्लाङ्गलाभिधे । स्वाम्यस्थाच्च प्रतिमया वासुदेवनिकेतने ॥५२७।। क्रीडायातान् ग्रामडिम्भान् गोशालस्तत्र कौतुकी । प्रेतवद्विकृतं रूपं कृत्वाऽभीषयताऽभितः ॥५२८।। भयात् केऽपि पतद्वस्त्राः स्फुटन्नासाश्च केचन । प्रस्खलद्गतयो नेशुामाभिमुखमर्भकाः ॥५२९।। अभ्येत्य पितरस्तेषां गोशालं प्रेक्ष्य तादृशम् । अर्भान् किं त्रासयसीति जल्पन्तोऽकुट्टयन् भृशम् ॥५३०।। तवृद्धाः स्वामिनं प्रेक्ष्य स्वानूचुर्मुच्यतामयम् । देवार्यस्याऽस्य संभाव्य एष शुश्रूषकः खलु ॥५३१।। तन्मुक्त ऊचे गोशालः स्वामिन्नद्यापि किं नु माम् । उपेक्षसे हन्यमानं ? वज्रवन्निष्ठुरोऽसि हा ! ॥५३२॥ सिद्धार्थस्तमभाषिष्ट सुष्ठ्वद्यापि निहन्यसे । व्याधिनेवाङ्गोत्थितेन स्वभावेनाऽमुनैव हि ॥५३३।। पाकायोत्सर्गं पारयित्वा ग्राम आवर्तनामनि । गत्वा स्वामी बलदेवौकस्यस्थात् प्रतिमाधरः ॥५३४|| डिम्भांस्तत्रापि गोशालो भीषयामास पूर्ववत् । तत्पितृभिः कुट्यते स्म चक्रीवानिव दुर्मदः ॥५३५॥ गतेषु तत्पितृष्वर्भान् पुनर्भीषयते स्म सः । प्राणात्ययेऽपि जन्तूनां प्रकृतिः खलु दुस्त्यजा ॥५३६।। क्रुद्धास्तत्पितरोऽभ्येत्य परस्परमदोऽवदन् । वराकं बालकुट्टाकं कुट्टयित्वाऽलमेतकम् ॥५३७|| स्वाम्यस्य कुट्यतामेष य एनं न निषेधति । भृत्यानामपराधे हि भर्तुर्दण्ड इति स्थितिः ॥५३८।। हित्वाऽऽगस्यपि गोशालं शालावृकमिवाऽथ ते । उदस्तदण्डाः श्रीवीरमभ्यढौकन्त दुधियः ॥५३९।। तत्रस्थव्यन्तरेणाऽर्हद्भक्तेनाऽधिष्ठिता रुषा । साक्षात् सीरीव सीर्य!त्सीरोदस्थाच्च तद्रुहे ॥५४०॥
आशङ्काविस्मयाकीर्णाः पतित्वा पादपद्मयोः । स्वामिनं क्षमयामासुस्ते ग्रामीणाः स्वनिन्दिनः ॥५४१॥ पाततश्च प्रययौ स्वामी चौराके सन्निवेशने । तत्रैकत्र रह:स्थाने तस्थौ च प्रतिमाधरः ॥५४२।। गोशालो नाथमित्यूचे गन्तव्यं चर्यया न वा ? । सिद्धार्थोऽभिदधेऽस्माकमुपवासोऽद्य वर्तते ॥५४३।। गोशालः क्षुधितोऽविक्षद् ग्रामे भिक्षार्थमुत्सुकः । गोष्ठीभक्तं तदा तत्र राध्यमानं ददर्श च ॥५४४|| भिक्षाक्षणोऽभून्नवेति लीनो गोशाल ऐक्षत । तत्र ग्रामे तदानीं चाऽभवच्चौरभयं महत् ॥५४५।। चौरोऽयं चौरचारो वा निलीनो यदुदीक्षते । एवं वितळ ते ग्राम्या गोशालकमकुट्टयन् ॥५४६।। मम धर्मगुरोस्तेजस्तपो वा यदि तद् द्रुतम् । दह्यतां मण्डपोऽमीषामिति गोशालकोऽशपत् ॥५४७|| व्यन्तरैर्भगवद्भक्तैरदह्यत स मण्डपः । जगाम च जगन्नाथः सन्निवेशं कलम्बुकम् ॥५४८।। पातत्रोभौ भ्रातरौ मेघः कालहस्ती च शैलपौ । कालहस्ती तदा सैन्येरधावच्चौरपृष्ठतः ॥५४९॥
१. श्यामली० मु. । २. हेमन्तऋतुभाविना । ३. पद्मकेशा० खं. १-२ । ४. ०रो हि हा खं. १-२ । ५. गर्दभ इव । ६. बालान् कुट्टयतीति, तम् । ७. अपराधे सत्यपि । ८. श्वानम् । ९. र्हद्गृह्येणा० नूतन मु. । १०. सीरी-बलदेवः । सीर्यर्चाबलदेवमूर्तिः । उत्सीरा उद्-ऊर्ध्वं सीरं-हलं यस्याः सा । ११. तद्गृहे खं. ३-४ । १२. 'उजाणी' इति भाषायाम् । १३. चौरचौरो० खं. १ । १४. यदुदैक्षत खं. १ । १५. पर्वतीयराजानौ ।