________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व
शीतसङ्कचिताङ्गोऽस्थाद् गोशालोऽथ हकारवत् । वादयन् दन्तपंक्ति च वैणिको वल्लेकीमिव ॥४९७।। गोशालं सानुकम्पास्ते तत्र प्रावेशयन् पुनः । सोऽपशीतो मुहूर्तेन तथैव पुनरभ्यधात् ॥४९८॥ स तैनिःसारितो भयो भूयश्चापि प्रवेशितः । एवं कोपकपाभ्यां ते तस्य त्रिरिति चक्रिरे ॥४९९।। तुर्यवारेऽथ गोशालः प्रविष्टोऽप्यब्रवीदिति । सद्भूतार्थाभिधानेऽपि को वः कोपोऽल्पमेधसाम् ? ॥५००। निजाय दुश्चरित्राय पाखण्डाः किं न कुप्यथ ? स्फुटार्थवादिनेऽमुष्मै मह्यं द्रुह्यथ किं मुहुः ? ॥५०१॥ उत्तिष्ठतोऽथ पाखण्डयूनस्तत्कुट्टनेच्छया । निवारयन्तस्तवृद्धा एवमभ्यधुरुच्चकैः ॥५०२॥ देवार्यस्य तपोराशेः कोऽप्यमुष्य महात्मनः । पीठधारश्छत्रधारोऽपरो वा स्यादुपासकः ॥५०३|| अनेन भाषितेनाऽलं भाषतां स्वेच्छयाऽप्यसौ । श्रोतुं चेन्न क्षमास्तद्भोः ! कुरुध्वं वाद्यवादनम् ॥५०४।। तथैव चक्रिरे तेऽपि जातेऽथ तपनोदये । श्रावस्ती स्वाम्यगात्तस्थौ बहिश्च प्रतिमाधरः ॥५०५।। पाभोजनावसरे प्राप्ते गोशालः प्रभुमभ्यधात् । भिक्षार्थं भगवन्नेहि जन्मसारं हि भोजनम् ॥५०६।। सिद्धार्थः प्राग्वदित्यूचे हंहो ! वयमुपोषिताः । गोशालोऽपृच्छदथ स्यान्ममाऽऽहारोऽद्य कीदृशः ? ॥५०७|| सिद्धार्थोऽप्याख्यदधुना नृमांसं भक्षयिष्यसि । गोशाल ऊचे तद्भोक्ष्ये मांसगन्धोऽपि यत्र न ॥५०८॥
एवं निश्चित्य भिक्षायै श्रावस्ती सोऽविशत् पुरीम् । इतश्च तस्यां नगर्यां पितृदत्तोऽवसद् गृही ॥५०९।। पाश्रीभद्रा तत्प्रिया निन्दु३मित्तं शिवदत्तकम् । अपत्यं मे कथं जीवेदित्यपृच्छत् कृतादरा ॥५१०॥ सोऽप्याचख्यौ जातमृतं पिष्ट्वा सासृपलं शिशुम् । क्षीरेण पायसीकृत्य सर्पिर्मधुसमन्वितम् ॥५११।। यद्युद्धूलितपादाय भोक्तुं दत्से सुभिक्षवे । तज्जीविष्यन्त्यपत्यानि नूनं नश्यत्प्रसूतिके ! ॥५१२॥ (युग्मम्) भुक्त्वा तत्र गते गेहद्वारं कार्यं त्वयाऽन्यथा । ज्ञात्वा तद्भोजनं क्रुद्धो मा धाक्षीत् स गृहं तव ॥५१३।। पामृतार्थं पायसीचक्रे स्वं तथैव सुतार्थिनी । गोशालायाऽऽगतायाऽदात्तदानीं भक्तितश्च सा ॥५१४|| भुक्त्वा च गत्वा स्वाम्यग्रेऽवोचद् भ्रान्तश्चिरादसि । सिद्धार्थोऽप्याख्यदेतस्मै पायसं तत्तथा कृतम् ॥५१५।। ववाम तत्तु गोशालो मुखे क्षिप्त्वा निजाङ्गुलीम् । नखाद्यवयवांस्तत्र ददर्श च चुकोप च ॥५१६।। ययौ तद्वेश्म चाऽन्वेष्टुं तद्द्वारे चाऽन्यथा कृते । नाऽज्ञासीत्तत्तु गोशालो गोपाल इव लक्षणम् ॥५१७|| ततोऽप्युवाच गोशालस्तपस्तेजश्च मद्गुरोः । यदि तद्दह्यतामेष प्रदेशः सकलोऽपि हि ॥५१८|| माऽन्यथा जिनमाहात्म्यं भूदिति व्यन्तरामराः । तत्र सन्निहिताः सर्वं प्रदेशमदहस्तकम् ॥५१९॥ पाकिञ्चित् स्थित्वा प्रभुरगाद् ग्रामं नाम्ना हरिद्वकम् । बहिर्हरिद्धवृक्षस्य तलेऽस्थात् प्रतिमाधरः ॥५२०॥ पत्रच्छायातपत्रस्य तले तस्यैव शाखिनः । तदाऽवात्सीन्महासार्थः श्रावस्ती नगरी गमी ॥५२१॥ स तु सार्थः शीतभीतो व्याघ्रभीत इवाऽनलम् । नक्तमज्वालयत् प्रातरुत्थाय च ययौ पुरः ॥५२२।। स प्रमादादशान्तोऽग्निर्व्याधिवत् प्रसरन् क्रमात् । आगादुपमहावीरैमध्यम्भोधीव वाडवः ॥५२३||
१. वेणिको खं. ३-४ । वैणिकी खं. १ । २. वीणामिव । ३. वारत्रयम् । ४. कुप्यत खं. १-३-४ । ५. द्रुह्यत खं. १-३-४ । ६. उत्तिष्ठन्तो० खं. १ । ७. पाखण्डान् खं. ४ । ८. सूर्योदये । ९. निन्दू: मृतापत्यजनयित्री । १०. शोणितमांसयुक्तम् । ११. पादत्राणविहीनपादाय । १२. त्वन्यथा खं. १-२, नूतन मु. । १३. व्याकरणम् । १४. प्रदेशं ददहुस्तकम् खं. १-२-४ । १५. पत्राणां-पर्णानां छाया एव आतपत्रं यत्र, तस्य । १६. ०वीरं मध्यां० मु. । अध्यम्भोधि-अम्भोधौ इत्यर्थः । वाडवःवडवाग्निः ।