________________
तृतीयः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
स्वामिंस्त्वत्प्रत्यनीकानां दह्यते किं प्रतिश्रयः ? । व्योम्ना ज्वालाकुलेनाऽनुमीयते ऽदः प्रदीपनम् ||४६८|| सिद्धार्थोऽप्यभ्यधान्मैवमभिधास्ते हि सूरयः । दिवं गताः शुभध्यानाच्छुभध्यानं हि कामधुक् ||४६९|| तेषां कर्तुं महिमानमेते तेजोमयाः सुराः । यैस्ते प्रदीपन भ्रान्तिरुत्पन्ना स्वल्पमेधसः ||४७०||
तद् द्रष्टुं कौतुकात्तत्र गोशालः प्रययौ द्रुतम् । स्वस्थानं च ययुर्देवाः क्वेदृशां देवदर्शनम् ? || ४७१ ।। पुष्पगन्धाम्बुवृष्टि स तत्र दृष्ट्वा प्रमोदभाक् । गत्वा प्रतिश्रये सुप्तांस्तच्छिष्यानभ्यधादिति ॥४७२॥ किं भवन्तो दुष्टशिष्या मुण्डा भिक्षां यदृच्छया । भुक्त्वा दिने निशां सर्वां शेरतेऽजगरा इव ? ||४७३॥ न हीदमपि जानीथ यत् सूरिः प्राप पञ्चताम् । गुरुषु प्रतिबन्धोऽयमहो वः कुलजन्मनाम् ! ||४७४। उत्तस्थुस्तेऽपि तच्छब्दात् पिशाच इव को न्वसौ ? । एवं शब्दायत इति चिन्तयन्तो महर्षयः ||४७५|| तेऽथ जग्मुरुपाचार्यमाचार्यं प्रेक्ष्य तं तथा । चिरं निनिन्दुरात्मानं कुलीना इव नन्दनाः ||४७६ || तान् गोशालोऽपि निर्भर्त्स्य स्वेच्छालापविदूषकः । इयाय नाथं नाथोऽपि चौराकेऽगान्निवेशने ॥४७७|| [[प्रतिचक्रभयात्तत्राऽऽरक्षैश्चारगवेषिभिः । कायोत्सर्गस्थितः स्वामी सगोशालोऽप्यदृश्यत ॥ ४७८ ॥ ब्रूहि कोऽसीति तैः पृष्टः समौनाभिग्रहः प्रभुः । न किञ्चिदभ्यधाद् वाचंयमा हि बधिरा इव ॥४७९॥ कस्यापि हेरिको ह्येष नूनं यन्मौनभागसौ । स्वामिनं ते सगोशालं जगृहु: क्रूरबुद्धयः ||४८०|| गोशालं शाकिनीवत्ते बद्ध्वा कूपे निचिक्षिपुः । मुहुर्घटीवद्विदधुर्न्यञ्चनोदञ्चनानि च ॥४८१॥ पार्श्वशिष्ये उत्पलस्य जोमी सोमा - जयन्तिके । साध्वीचय परिव्राजौ चौराकेऽवसतां तदा ||४८२ ।। ईदृग्रूपौ नरौ कौचित् क्षेपणोत्क्षेपणैर्जले । आरक्षैः पीड्यमानौ स्तस्ते इत्यशृणुतां जनात् ॥४८३॥ छद्मस्थश्चरमतीर्थकरोऽसौ नु भवेदिति । उपेत्य ते क्षणान्नाथं तथावस्थमपश्यताम् ॥४८४|| आरक्षानूचतुश्चैवं किं रे मूर्खा मुमूर्षवः ! । न जानीथ प्रभुममुं सिद्धार्थनृपनन्दनम् ? ॥४८५ ॥ ते भीताः स्वामिनं मुक्त्वा नत्वा चाऽक्षमयन्मुहुः । महान्तो हि न कुप्यन्ति क्षम्यन्ते त्वात्मशङ्कितैः ॥४८६॥ q[दिनानि कतिचित्तत्राऽतिवाह्य परमेश्वरः । तुर्यां प्रावृषमत्येतुं पृष्ठचम्पां पुरीं ययौ ॥४८७॥ चतुर्मासक्षपणकृद्विविधप्रतिमाधरः । चतुर्मासीं जगन्नाथस्तत्र तस्थाववस्थितः ॥४८८॥
३७
चतुर्मास्यन्तदिवसे पारयित्वा बहिः क्वचित् । जगाम त्रिजगन्नाथो नगरं कृतमङ्गलम् ||४८९|| दरिद्रस्थविराभिख्याः सारम्भाः सपरिग्रहाः । सकलत्राः ससन्तानास्तत्र पाखण्डिनोऽवसन् ॥४९०॥ मध्ये तत्पाटकस्याऽऽसीदेकं देवकुलं महत् । तेषां कुलक्रमायातदेवताप्रतिमाङ्कितम् ॥४९१॥ तस्य देवकुलस्यैककोणे तस्थौ समाहितः । तत्स्तम्भ इव निष्कम्पः कायोत्सर्गधरः प्रभुः ||४९२|| [[माघमासे तदा रात्रौ शीतमासीत् सुदुस्सहम् । तेषां पाखण्डिनां देवकुले चाऽभून्महोत्सवः ॥४९३॥ ते पुत्रादिपरीवारास्तस्मिन्नायतने मुदा । तदा सम्भूय ननृतुर्जगुः परिजजागरुः ॥४९४|| हसन्नूचेऽथ गोशालः पाखण्डाः केऽप्यमी बत ! । येषां पल्यो मद्यपानं गीतनृत्तादि चोच्चकैः ||४९५॥। तच्छ्रुत्वा कुपितास्तेऽपि सारमेयमिवाऽऽलयात् । कण्ठे गृहीत्वा गोशालं तत्कालं निरसारयन् ॥४९६॥
१. ०मभ्यधा० नूतन मु. । २. ०च्छुभं खं. १-२ । ३. ०श्चौर० मु । चारः - गुप्तचरः । ४. गुप्तचरः । ५. भगिन्यौ । ६. साध्वीसदृश्यौ । साधुवर्यौ खं. १-२ विना, मु. । ७. तं खं. १-२ । ८. चाऽऽसीन्म० खं. ४ ।