________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
[[निष्क्रम्य स्वाम्यगाद् ग्रामे पत्रकालेऽभिधानतः । प्राग्वच्चाऽस्थाच्छून्यगृहे निशायां प्रतिमाधरः ||४३९|| भयान्निलीय गोशालः कोणेऽस्थात्ततत्र वेश्मनि । रन्तुं दन्तिलया दास्याऽऽगात् स्कन्दो ग्रामणीसुतः ||४४०|| सिंहवद्वयाहरत् सोऽपि न च कोऽप्युत्तरं ददौ । क्रीडित्वा निर्ययौ स्कन्दो गोशालोऽहसदुच्चकैः || ४४१।। छन्नः पिशाचवत्स्थित्वा हसत्युच्चैस्तु को न्विति । जल्पंस्तं कुट्टयामास स्कन्दोऽगादथ वेश्मनि ॥४४२॥ गोशालोऽप्यब्रवीन्नाथं स्वामिधर्मः किमेष ते । निर्दोषं हन्यमानस्य त्राणं मे कुरुषे न यत् ? ॥४४३||
I
३६
सिद्धार्थः पुनरूचे तं भो ! मूर्खेवमनेकशः । अनर्थं मुखदोषेण त्वं तित्तिरिरिवानुषे ||४४४॥ |[कुमारसन्निवेशेऽगाद् भगवानथ तत्र च । चम्पकरमणीयाख्योद्यानेऽभूत् प्रतिमाधरः ॥४४५ ॥ तत्र चाऽऽसीद्धनधान्यऋद्धः कूपनयाह्वयः । कुलालः प्रियमदिरो मदिराकीटवत् सदा ||४४६|| तच्छालायां पार्श्वनाथशिष्यः शिष्यगणावृतः । बहुश्रुतो मुनिचन्द्राचार्य आसीत्तदा स्थितः ||४४७|| शिष्यं गच्छे स्थापयित्वा स सूरिर्वर्धनाभिधम् । जिनर्कल्पप्रतिकर्म विदधेऽत्यन्तदुष्करम् ॥४४८॥ तपः-सत्त्व-सूत्रै-कत्व-बलानां तुलनाभिदा । भावयन् स्वं द्वितीयया सोऽन्यदाऽस्थात् समाहितः ॥४४९॥ [[इतश्चोवाच गोशालो नाथं मध्यन्दिनक्षणे । समयो वर्तते यामो भिक्षायै ग्राममध्यतः ||४५०|| सिद्धार्थोऽथाऽब्रवीदद्य वर्तामह उपोषिताः । गोशालस्त्वविशद् ग्रामे भिक्षाहेतोर्बुभुक्षितः || ४५१|| सोऽपश्यत् पार्श्वशिष्यांस्तान् विचित्रवसनावृतान् । पात्रादिधारिणः के नु यूयमित्यन्वयुङ्क्त च ॥४५२॥ निर्ग्रन्थाः पार्श्वशिष्याः स्मो वयमित्यूचिरेऽथ ते । गोशालोऽपि हसन्नूचे धिग् वो मिथ्याभिभाषिणः ! ||४५३।। कथं नु यूयं निर्ग्रन्था वस्त्रादिग्रन्थधारिणः ? । केवलं जीविकाहेतोरियं पाखण्डकल्पना ||४५४|| वस्त्रादिसङ्गरहितो निरपेक्षो वपुष्यपि । धर्माचार्यो हि यादृङ् मे निर्ग्रन्थास्तादृशाः खलु ॥४५५॥ ते जिनेन्द्रमजानन्तः प्रत्यूचुर्यादृशो भवान् । धर्माचार्योऽपि ते तादृगात्तलिङ्गः स्वयं किमु ? ||४५६॥ कुधा चुक्रोश गोशालो मम धर्मगुरोर्यदि । तपस्तेजोऽस्ति तदयं दह्यतां व उपाश्रयः ||४५७|| तेऽप्यब्रुवंस्त्वद्वचनान्न हि दह्यामहे वयम् । गोशालोऽपि विलक्षः सन् गत्वा स्वामिनमभ्यधात् ॥४५८॥ दृष्टा मयाऽद्य संग्रन्था निन्दन्तो वस्तपस्विनः । दह्यतामा श्रमोऽसावित्याकुष्टं च रुषा मया ॥ ४५९॥ तथापि नाश्रयस्तेषामदह्यत मनागपि । तत्र किं कारणं ? स्वामिन्नाख्याहि परमार्थतः ||४६०|| सिद्धार्थोऽप्यवदच्छिष्याः श्रीपार्श्वस्वामिनो हि ते । तेषामुपाश्रयो हन्त त्वद्गिरा दह्यते कथम् ? ||४६१|| [[अत्रान्तरे निशा जज्ञे मुनिचन्द्राख्यसूरयः । उपाश्रयाद् बहिर्भूत्वा तस्थुः प्रतिमया तदा ||४६२॥ स च कूपनयः श्रेणिभक्ते पीतसुरोऽतिहिः । मत्तो घूर्णन् समागच्छन्नाचार्यांस्तानुदैक्षत ||४६३|| आचार्यांश्चौरबुद्ध्या तान् गृहीत्वा निर्दयं गले । निरुच्छ्वासीचकाराऽऽशु कुम्भकारो दुराशयः ||४६४|| शुभध्यानादचलिता वेदनां तां सहिष्णवः । सद्यो जातावधिज्ञाना मृत्वाऽऽचार्या दिवं ययुः ||४६५|| तेषामुपरि पुष्पाणि प्रत्यूषंपवना इव । प्रवर्षन्तो महिमानमासन्नव्यन्तरा व्यधुः ||४६६।।
q[इतोऽपि स च गोशालो विद्युन्मालामिवाऽम्बरे । तेजोरूपां देवपंक्ति दृष्ट्वाऽऽचख्याविति प्रभोः ||४६७||
१. जिनकल्पो जैनमुनीनां आचारस्थितिविशेषः । तस्य तुलना तत्प्रतिकर्म । २. ०भिदाम् खं. १-२ विना । ३. पानगोष्ठ्याम् । ४. पीता सुरा येन सः । पीतसुरो बहिः मु. । ५. निरुच्छ्वासान् चकारा० खं. १-२ । ६. प्रत्यूषे खं. १-२ | प्रातः कालस्य पवनाः ।