________________
arunana
तृतीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । नीरागोऽपि भाव्यमर्थं तद्भावं च विदन्नपि । तद्वचः प्रत्यपादीशो महान्तः क्व न वत्सलाः ? ॥४१२।। पागोशालेन समं स्वर्णखलाख्यं सन्निवेशनम् । प्रत्यचालीत् प्रभुर्मार्गे युगमात्रप्रदत्तदृक् ॥४१३॥ मार्गे गोपै राध्यमानं पायसं प्रेक्ष्य मङ्खसूः । ऊचेऽतिक्षुधितोऽस्म्येहि कुर्मः पायसभोजनम् ॥४१४॥ सिद्धार्थः स्माह निष्पत्तिं नेदं यास्यति पायसम् । गोशालोऽप्येत्य गोपालान् दुष्टधीरित्यभाषत ॥४१५।। देवार्योऽयं त्रिकालज्ञ आख्याति यदसावुखा । स्फुटिष्यत्यर्धनिष्पन्नपायसैवाऽऽमभाण्डवत् ॥४१६।। भीता वंशदलैः स्थाली बबन्धुस्तां च गोपकाः । भूयिष्ठैस्तण्डुलैः क्षिप्तैविकसद्भिश्च साऽस्फुटत् ॥४१७।।
आदाय कर्पराण्यादुर्गापास्तदपि पायसम् । तदलाभे च गोशालोऽत्यन्तं नियतिमग्रहीत् ॥४१८॥ पास्वाम्यगाद् ब्राह्मणग्रामे द्वौ स्तस्तत्र च पाटकौ । तयोर्नन्दोपनन्दाख्यौ स्वामिनौ भ्रातरावुभौ ॥४१९॥ षष्ठपारणके स्वामी प्राविशन्नन्दपाटके । स दध्युषितकूरेण नन्देन प्रत्यलाभि च ॥४२०॥ गोशालः पाटकेऽन्यस्मिन् प्रविष्टः प्रेक्ष्य वेश्म च । उत्तुङ्गमुपनन्दस्य ययौ भिक्षार्थमादृतः ॥४२१॥ उपनन्दाज्ञया दासी कूरं तस्योषितं ददौ । तच्चाऽनिच्छन्नुपनन्दमाचुक्रोश स दुष्टधीः ॥४२२।। उपनन्दोऽवदद्भक्तं नैष गृह्णाति चेत्तदा । अस्य मूनि क्षिप क्षिप्रं साऽपि चक्रे तथैव हि ॥४२३॥ गोशालः कुपितोऽवोचन्मद्गुरोरस्ति चेत्तपः । तेजो वा तर्हि सद्योऽपि दह्यतामस्य मन्दिरम् ॥४२४।। मा स्वामिनामग्रहणाद्वन्ध्यः शापोऽपि भूदिति । तत्रस्थव्यन्तराः सद्माऽधाक्षुस्तत्तृणपुञ्जवत् ॥४२५।। पास्वामी च प्रययौ चम्पां वर्षारात्रं तृतीयकम् । तत्र चाऽस्थात् प्रतिज्ञातद्विमासक्षपणद्वयः ॥४२६।। कायोत्सर्गेणोत्कटिकादिभिस्तैस्तैरथाऽऽसनैः । तस्थौ मुक्त इवेहापि स्वामी सम्यक् समाधिभृत् ॥४२७|| बहि: पुर्या द्वितीयं द्विमासक्षपणपारणम् । कृत्वा स्वामी सगोशाल: कोल्लाकेऽगान्निवेशने ॥४२८॥ नक्तं तत्र गृहे शून्ये तस्थौ प्रतिमया प्रभुः । तद्द्वारेऽस्थात्तु गोशालो लीत्वा कपिरिवाऽस्थिरः ॥४२९॥ पातदा ग्रामेशतनयः सिंहोऽभिनवयौवनः । विद्युन्मत्या समं दास्या रिरंसुस्तत्र चाऽविशत् ॥४३०|| सोऽवोचदुच्चकैरेवं योऽत्राऽस्ति श्रमणो द्विजः । पान्थो वाऽपि स आख्यातु यामो येनाऽन्यतो वयम् ॥४३१।। कायोत्सर्गप्रपन्नत्वात्तूष्णीक: स्वाम्यभूत्तदा । तत्तु श्रुत्वापि गोशाल: कपटान्नोत्तरं ददौ ॥४३२।। अलब्धप्रतिवाक् सिंहश्चिरं रेमे तया सह । क्षणं स्थित्वा च निर्गन्तुं प्रावर्तत ततो गृहात् ॥४३३।। गोशालो द्वारदेशस्थः प्रकृत्या दुर्मतिश्चलः । विद्युन्मती विनिर्यान्ती दासी पस्पर्श पाणिना ॥४३४॥ स्वामिन् ! स्पृष्टाऽस्मि केनाऽपीत्युच्चकैर्व्याजहार सा । वलित्वा कुपितः सिंहो धृत्वा गोशालमब्रवीत् ॥४३५।। अरे रे ! छद्मना छन्नः स्थित्वाऽनाचारमावयोः । पश्यन्नस्था भाषितोऽपि तदा नाऽदास्त्वमुत्तरम् ? ॥४३६।। इत्युक्त्वा कुट्टयित्वा तं सिंहः स्वस्थानमभ्यगात् । गोशालः स्वामिनं स्माऽऽह पश्यतां वो हतोऽस्म्यहम् ।।४३७|| सिद्धार्थोऽथाऽवदच्छीलमस्मद्वत्कि न रक्षसि ? । आचरंश्चापलं चैवं द्वारस्थः किं न कुट्यसे? ॥४३८||
१. भव्यतार्थं मु. । भाव्यनर्थं नूतन मु. । २. तद्भवं नूतन मु. । ३. युगं धूः, तत्प्रमाणा दृष्टिः । ४. पच्यमानम् । ५. उवाच क्षु० खं. १-२ । ६. उखा-स्थाली, 'हांडी' । ७. स्थालीखण्डानि । ८. प्रतिलाभितः खं. १-२ । ९. ०स्तत्तृणपूलवत् मु. । १०. ०शमादिभृत् खं. १-२ । ११. ०श्चित्रं नूतन मु. । १२. स्थित्वा चाचार० खं. १-२ ।