________________
कलिकालसर्वज्ञ श्री हेमचन्द्राचार्यगुम्फितं
तत्रैवं चिन्तयत्येव पारयित्वा जगद्गुरुः । एत्य तत्रैव शालायामस्थात् प्रतिमया प्रभुः ||३८४|| [[गोशालः स्वामिनं नत्वोवाच "वाचंयमस्य ते । मया प्रभावो नाऽज्ञायि विज्ञेनाऽपि प्रमादतः ||३८५ ॥ शिष्यस्तेऽहं भविष्यामि त्वमेकं शरणं मम" । इत्युक्त्वा स तथा चक्रे तूष्णीकोऽस्थात् प्रभुः पुनः ||३८६|| गोशालो भिक्षया प्राणवृत्तिं कुर्वन् दिवानिशम् । नाऽमुञ्चत् स्वामिनः पार्श्वं स्वबुद्धया शिष्यतां गतः || ३८७|| द्वितीयमासक्षपणे स्वामी वेश्मन्युपागतः । आनन्देन गृहस्थेन खाद्यकैः प्रत्यलाभ्यत ||३८८|| तृतीयमासक्षपणे सुनन्दगृहिणा प्रभुः । सर्वकामगुणाख्येनाहारेण प्रत्याभ्यत ॥ ३८९ ॥ गोशालकोऽपि भैक्षेण कुक्षिपूरणतत्परः । भगवन्तं महावीरमसेवत दिवानिशम् ॥३९०॥ q[प्राप्तायामूर्जरौकायां गोशालो हृद्यचिन्तयत् । ज्ञान्येष श्रूयत इति परीक्षे ज्ञानमस्य हि ॥ ३९१ || जायमाने प्रतिगृहं वार्षिकेऽस्मिन् महोत्सवे । भिक्षायां किमहं लप्स्ये ? स्वामिन्नाख्याहि मेऽधुना ॥३९२॥ सिद्धार्थः स्वामिसंक्रान्तो बभाषे भद्र ! लप्स्यसे । धान्याम्लं कोद्रवकूरमेकं कूटं च रूपकम् ॥३९३॥ तदाकर्ण्य च गोशालो दिनाऽऽरम्भात् प्रभृत्यपि । विशिष्टभोजनाभ्यर्थी श्वेवाऽभ्राम्यद् गृहे गृहे ॥ ३९४॥ तथापि कुत्रचित् किञ्चिन्न कथञ्चिदवाप सः । श्रान्तोऽपराह्ने केनापि निन्ये कर्मकृता गृहे ॥३९५॥ धान्याम्ल-कोद्रवकूरे दत्ते तेनापि सोऽपि ते । बुभुजेऽतिक्षुधा लेभे दक्षिणायां च रूपकम् ॥३९६॥ परीक्षिते रूपकेऽपि कूटे सति स लज्जितः । यद्भावि तद्भवतीति नियतिवादमग्रहीत् ||३९७|| [[दीक्षातः प्रावृषं स्वामी द्वितीयामतिगम्य ताम् । नालन्दाया निरीयाऽगात् कोल्लाके सन्निवेशने ॥ ३९८।। तदा च बहुलो नाम विप्रो विप्रानभोजयत् । महादरेण स्वगृहे भिक्षार्थी चाऽऽययौ प्रभुः ||३९९|| सशर्कराज्यक्षैरेय्या स प्रभुं प्रत्यलाभयत् । चक्रुश्च पञ्च दिव्यानि तदोकसि दिवौकसः ||४०० || चतुर्थमासक्षपणपारणं व्यधित प्रभुः । संसारतारणं दातुः श्रद्धातुरपि जन्मिनः ॥४०१ ||
q[इतश्च सायं गोशालः शालां ह्रीणोऽविशच्छनैः । अपश्यन् स्वामिनं लोकान् क्व स्वामीत्यन्वयुङ्क्त सः ॥४०२॥ स्वाम्युदन्तं न कोऽप्याख्यत् सोऽन्वेष्टुं स्वामिनं ततः । पर्याट सुचिरं दीनो नालन्दासन्निवेशने ॥४०३॥ भूयो वराक एकाकी जातोऽस्मीति विचिन्त्य सः । मुण्डयित्वा शिरस्त्यक्तवस्त्रो निरगमत्ततः ॥४०४|| गतश्च कोल्लाकेऽश्रौषीद्धन्योऽयं बहुलो द्विजः । मुनौ दानाद्यस्य गृहे रत्नवृष्टिः सुरैः कृता ॥४०५॥ तच्छ्रुत्वाऽचिन्तयत् सोऽपि प्रभावस्तस्य हीदृशः । मद्गुरोरेव नाऽन्यस्य नूनमत्र स तिष्ठति ॥४०६|| एवं विमृश्य सोऽन्वेष्टुं भ्राम्यन्निपुणया दृशा । ऐक्षिष्ट स्थितमेकत्र कायोत्सर्गधरं प्रभुम् ॥४०७॥ स प्रणम्य प्रभुं स्माऽऽह नाऽहं दीक्षोचितः पुरा । वस्त्रादिसङ्गादभवं त्यक्तसङ्गोऽस्मि संप्रति ॥ ४०८।। प्रतिपद्यस्व मां शिष्यं यावज्जीवं गुरुर्भव । त्वां विनेषदपि स्थातुं न क्षमै परमेश्वर ! ||४०९॥
नीरागे त्वयि कः स्नेहो नैकहस्ता हि तालिका । स्वामिन् ! मम मनः किं तु बलात् त्वामनुधावति ॥४१०| त्वयाऽभ्युपगतं स्वं तु जानाम्येष तथापि हि । स्मेरारविन्दसध्रीच्या दृशा मां यन्निरीक्षसे ॥४११॥
१२
३४
[ दशमं पर्व
१. तत्र-गोशाले एवं चिन्तयति सति । २. खाद्याद्यैः खं. १-२ । 'खाजा' नाम्ना प्रसिद्धेन खाद्यद्रव्येण । ३. कार्तिकपूर्णिमायाम् । ४. रूप्यकाभासम् । ५. ०ऽपराने खं. १-२-३-४ । ६. जन्मनि खं. १-२ । ७. लज्जितः । ८. पर्यटन् खं. १-२ । ९. ० स्त्यक्तवसनो निरगात्ततः खं. ४ । १०. क्षमः खं. १ - २, मु. ११ मन्मनः मु. । १२. विकसितकमलपुष्पसमानया ।