________________
३३
तृतीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । अप्येभिर्लक्षणैरेष भिक्षुरित्यस्मि विस्मितः । धिङ् मे शास्त्रश्रमं धिङ् मामस्मिन्नाशाविधायिनम् ॥३५६।। प्रतारणाय विश्वस्य स्वस्य कौतूहलाय वा । अनाप्तैरेव शास्त्राणि विहितानीति मन्यते ॥३५७|| तेषां वाचा निबद्धाशो धावितोऽस्मि मुधैव हि । मृगतृष्णाजलायेव हरिणो मरुमण्डले ॥३५८॥ एवं विमृश्य पुष्पोऽधाद्विषादमधिकं हृदि । तदा चाऽचिन्तयच्छकः कथं विहरति प्रभुः ? ॥३५९।। अपश्यच्चाऽवधिदृशा स्थूणाके स्वामिनं स्थितम् । तं च नैमित्तिकं पुष्पं विषादाच्छास्त्रदूषकम् ॥३६०।। १[अथ द्रुतमुपेत्येन्द्रो जिनेन्द्रं प्रतिमास्थितम् । अवन्दत महाऋद्ध्या तस्य पुष्पस्य पश्यतः ॥३६१॥ शक्रः पुष्पं बभाषे च किं नु शास्त्राणि निन्दसि ? । तत्कारकांश्च किं ? ते हि न मृषाभाषिणः खलु ॥३६२।। बाह्यान्येव हि जानासि लक्षणान्यान्तराणि तु । स्वामिनः क्षीरधवले अविस्र मांस-शोणिते ॥३६३।। मुखपङ्कजनिःश्वासः पङ्कजामोदसोदरः । निरामयं मलस्वेदवर्जितं च प्रभोर्वपुः ॥३६४॥ अयं हि त्रिजगन्नाथो धर्मचक्री जगद्धितः । विश्वाभयप्रदः स्वामी वीर: सिद्धार्थनन्दनः ॥३६५।। इन्द्राश्चतुःषष्टिरपि स्वामिनोऽस्य पदातयः । कियन्मानं चक्रिणस्ते ? येभ्यः फलमभीप्ससि ॥३६६।। दत्त्वाऽसौ वार्षिकं दानं तितीर्घर्भवसागरम् । त्यक्तराज्य: परिव्रज्य विहरत्येवमश्रमः ॥३६७|| शास्त्राणि संवदन्त्येव मा विषीद मनागपि । ददाम्यभीप्सितं ते च न मुधा स्वामिदर्शनम् ॥३६८।। इत्युक्त्वाऽभीप्सितं तस्मै दत्त्वा च त्रिदशेश्वरः । नमस्कृत्य जगन्नाथं यथास्थानं पुनर्ययौ ॥३६९।। पाकायोत्सर्गं पारयित्वा विहरन् भगवानपि । पादन्यासैः पुनानः क्ष्मां प्राप राजगृहं पुरम् ॥३७०।।
पुरस्याऽदूरतस्तस्य नालन्दायां बहिर्भुवि । विशाला स्वाम्यगाच्छालां तन्तुवायस्य कस्यचित् ॥३७१।। तन्तुवायमनुज्ञाप्य वर्षा वस्तुं जगद्गुरुः । शालाया एकदेशेऽस्थान्मासक्षपणमाश्रितः ॥३७२।। पाइतोऽभून्मङ्खलिमलो भद्रा तस्य च गेहिनी । उभौ विजह्रतुः पृथ्वीं दधानौ चित्रपट्टिकाम् ॥३७३।। प्राप्ते शरवणग्रामे सुभद्राऽसूत चाऽन्यदा । द्विजाते!बहलस्य गोशालायां तनूरुहम् ॥३७४।। स गोशालाप्रसूतत्वाद् गोशाल इति संज्ञितः । क्रमादुद्यौवनो मङ्खशिल्पमभ्यस्तवान्निजम् ॥३७५।। निसर्गतः कलिकर: पित्रोरप्यवशंवदः । निर्लक्षणो जन्मतोऽपि सोऽभूत् कूटविचक्षणः ॥३७६।। पितृभ्यां कलहं कृत्वा गृहीत्वा चित्रपट्टिकाम् । भ्राम्यन् भिक्षां स एकाकी ययौ राजगृहेऽन्यदा ॥३७७|| स्वामिनाऽलङ्कते शालाकोणे तत्राऽनुमान्य तम् । गोशालोऽप्यवसत्सिहसन्निधाविव जम्बुकः ॥३७८।। पानाथोऽपि मासक्षपणपारणस्य विधित्सया । विजयश्रेष्ठिनो वेश्म प्राविशत् पाणिभाजनः ॥३७९।। भक्त्या महत्या विजयश्रेष्ठी श्रेष्ठमतिः स्वयम् । सम्यग्भोजनविधिना स्वामिनं प्रत्यलाभयत् ॥३८०॥ अहो ! दानं सुदानं चेत्युच्चैराघोषिणोऽमराः । रत्नवृष्ट्यादिदिव्यानि तद्गृहे पञ्च चक्रिरे ॥३८१॥ आकर्ण्य तत्तु गोशालोऽचिन्तयद्यदयं मुनिः । न सामान्योऽस्याऽन्नदातुर्गृहे श्रीर्यदभूदियम् ॥३८२।। विहाय चित्रफलकपाखण्डं तदमुं निजम् । अस्य शिष्यीभवाम्यद्य निष्फलो नेदृशो गुरुः ॥३८३।।
१. महाभक्त्या खं. १-२ । २. त्वं खं. १-२ । ३. तैर्हि न मृषा भाषितं किल मु. । ४. अविश्रे खं. १-२-३-४ । दुर्गन्धरहिते। ५. नालन्दाया मु. । ६. ०मंख्यो मु. । चित्रफलकजीवी भिक्षुकविशेषः । ७. ०\बहुलस्य मु. । ८. शृगालः । ९. सामान्यः स्यात् तद्दातु० खं. १-२-३-४ ।