________________
३२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व कुक्कुटाण्डाविव श्वेतौ सदृक्षौ युग्मजाविव । कन्दुकाविव वृत्ताङ्गौ चामरोपमवालधी ॥३२७|| उत्पतिष्णू इवौधुर्याद्वेगाद्वायोरिवाऽऽत्मजौ । शकट्यां योजयामास तौ वृषौ श्रेष्ठिनः सुहृत् ॥३२८।। (युग्मम्) तत्सौकुमार्यमविदन् प्राजनाराभिरीरयन् । चित्रीयमाणो लोकानां सोऽकृपस्ताववाहयत् ॥३२९॥ वाहकेलीकतपणान पौरान सर्वाचिगाय सः । ताभ्यामद्वैतरंहोभ्यां वषभाभ्यां क्षणादपि ॥३३०॥
आराच्छिद्रोच्छलद्रक्तप्लाविताङ्गौ च तौ वृषौ । जातत्रोटौ श्रेष्ठिगृहे भूयो बवा जगाम सः ॥३३१।। पाभोजनावसरे श्रेष्ठी स्वयं यवसपूलभृत् । तयोर्वृषभयोः पार्श्वे ययौ तनययोरिव ॥३३२।। व्यात्तास्यौ निःसहौ सास्रौ बहुश्वासौ सवेपथू । आरा-क्षत-क्षरद्रक्तौ प्रेक्ष्य तावित्युवाच सः ॥३३३॥ एतौ पापात्मनोक्षाणौ प्राणेभ्योऽपि प्रियौ मम । मामनापृच्छ्य नयता नीतौ केनेदृशीं दशाम् ? ॥३३४|| श्रेष्ठिनो मित्रवृत्तान्तमाख्यत् परिजनोऽखिलम् । खेदं श्रेष्ठ्यपि सोदर्यविपदीवाऽऽसदद् भृशम् ॥३३५।। तौ वृषावप्यनशनं कर्तुकामौ विवेकिनौ । न मनाग् जघ्रतुरपि श्रेष्ठिदत्ते तृणाम्भसी ॥३३६।। ततश्चाऽढौकयच्छ्रेष्ठी स्थालमाज्यान्नपूरितम् । सम्भावयामासतुस्तद् दृशाऽपि हि न तौ वृषौ ॥३३७|| भावं ज्ञात्वा तयोर्भक्तप्रत्याख्यानमदत्त सः । तावपि प्रतिपेदाते साभिलाषौ समाहितौ ॥३३८।। तयोश्च कृपया श्रेष्ठी स्वयं त्यक्तान्यकर्मकः । नमस्कारान् ददत्तस्थौ बोधयंश्च भवस्थितिम् ॥३३९।।
शृण्वन्तौ तौ नमस्कारान् भावयन्तौ भवस्थितिम् । समाधिना मृतौ नागकुमारेषु बभूवतुः ॥३४०॥ पाअथ कम्बल-शबलाववधेस्तावपश्यताम् । क्रियमाणं सुदाढेन स्वामिनस्तमुपद्रवम् ॥३४१॥ कृतमन्येन कृत्येन कृत्यमेतद्यदर्हतः । उपसर्ग निषेधावो ध्यात्वैवं तावुपेयतुः ॥३४२।। एक: प्रववृते योद्धं सुदाढेनाऽहिना सह । द्वितीयः पाणिनोत्पाट्य निन्ये नावं नदीतटे ॥३४३।। महद्धिकोऽपि सुदाढ आयुःप्रान्तगलबलः । ताभ्यां नूतनदेवत्ववैभवाभ्यामजीयत ॥३४४|| नंष्ट्वा सुदंष्ट्रः प्रययौ तौ च नागकुमारकौ । नत्वा प्रभौ ववृषतुः पुष्पगन्धोदके मुदा ॥३४५।। नद्या इवाऽऽपदोऽमुष्या उत्तीर्णास्त्वप्रभावतः ॥ इति ब्रुवाणा नौलोका भक्त्या वीरं ववन्दिरे ॥३४६।। पाप्रभुं नत्वेयतु गौ तर्या उत्तीर्य च प्रभुः । यथावदैर्यापथिकी प्रतिक्रम्याऽन्यतोऽचलत् ॥३४७।। सूक्ष्मामृत्तिके गङ्गासैकते पदपद्धतिः । चक्रादिलाञ्छिता भर्तुरभूद् भूभूषणं स्फुटा ॥ ३४८ ॥ सामुद्रलक्षणाभिज्ञः पुष्पो नाम ददर्श ताम् । एवं च दध्यौ कोऽप्येष एकाकी चक्रवर्त्यगात् ॥३४९॥ अद्याप्यप्राप्तराज्यो वा हृतो वा केनचिच्छलात् । मन्ये संप्रत्यसौ याति तं सेवे सेवकैषिणम् ॥३५०॥ असावस्यामवस्थायां सेवितः फलदः खलु । सेव्यस्य सेवावसर: पुण्येनैव हि लभ्यते ॥३५१॥ ध्यात्वेत्यनुपदं सोऽगात् स्थूणाके सन्निवेशने । अधोऽशोकस्य चाऽपश्यत् प्रभुं प्रतिमया स्थितम् ।।३५२।। श्रीवत्सलाञ्छितं वक्षः शिरोऽप्युष्णीषलाञ्छितम् । चक्रादिलाञ्छितौ पाणी भुजौ भुजगरानिभौ ॥३५३।। दक्षिणावर्तगम्भीरशुषिरं नाभिमण्डलम् । लोकोत्तराणि लक्ष्माणि प्रभोरेवं ददर्श सः ॥३५४||
एवं चाऽचिन्तयत् पुष्पो यथाऽयं पादलक्षणैः । लोकोत्तरस्तथाऽन्यैरप्यसौ चक्रीति सूच्यते ॥३५५।। १. कुर्कुटा० मु. । २. चामरतुल्यपुच्छौ । ३. 'परोणी' इति भाषायाम् । ४. अद्वितीयवेगाभ्याम् । ५. आरक्षत० खं. ४, मु. । ६. ममाऽना० मु. । ७. सहोदरस्य विपत्ताविव । ८. ०माढ्यान्न० मु. । ९. शम्बला० मु. । १०. ०प्रान्ते गल० मु. । ११. नौकायाः ।