________________
तृतीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
अरे रे ! कुत्र यासीति विब्रुवन् विचकार सः । संवर्तकमहावातं संवर्तानलभीषणम् ॥३०१॥ निपेतुस्तरवस्तेन पर्वताश्च चकम्पिरे । गाङ्गमुच्छलति स्मोच्चैर्जलमभ्रंलिहोर्मिकम् ॥३०२|| सा च गाङ्गैस्तरङ्गैर्नौः समुत्पाति-निपातिभिः । उदच्यते न्यच्यते स्म द्विरैदोपात्तरूपवत् ॥३०३॥ निर्भग्नः कूपकैस्तम्भः शीर्णः सितपोऽपि च । आत्मेव नावो मूढोऽभूत् कर्णधारो भयातुरः ||३०४|| आरेभे देवताः स्मर्तुं मर्तुकामः समाकुलः । यमजिह्वाग्रवर्तीव नौवर्ती सकलो जनः ॥३०५|| ||इतश्च मथुरापुर्यां जिनदासो वणिक् पुरा । श्रावकोऽभूत्तस्य भार्या साधुदासीति विश्रुता ||३०६ || प्रत्याख्यातां धार्मिकौ तौ चतुष्पदपरिग्रहम् । दध्यादिकं चिक्रियतुश्चाऽऽभीरीपार्श्वतोऽन्वहम् ||३०७|| आभीरी काचिदन्येद्युरानिन्ये प्रवरं दधि । क्रीत्वा च साधुदासीति तामुवाच प्रसन्नवाक् ॥३०८॥ त्वया नाऽन्यत्र नेतव्यं दुग्ध-दध्यादिकं निजम् । अहमेव ग्रहीष्यामि मूल्यं दास्ये तवेप्सितम् ||३०९|| तथैव प्रत्यहं चक्रे साऽऽभीरी प्रीतमानसा । तां वर्षवारदानेन सच्चक्रे साधुदास्यपि ॥ ३१०|| द्वयोः प्रववृते स्नेहः स्वत्रोरिव तयोर्महान् । आभीर्याः सदने तस्या विवाहोऽभवदन्यदा ||३११॥ निमन्त्रितौ तयोद्वाहे श्रेष्ठिनावेवमूचतुः । आवामक्षणिकौ भद्रे ! नाऽऽगन्तुं तत्र शक्नुवः ॥ ३१२॥ यत्तु वस्तु विवाहार्हं तद् गृहाणाऽस्मदालयात् । इत्युक्त्वा ददतुर्वस्त्रधान्यालङ्करणादिकम् ॥३१३|| तद्दत्तैर्वस्तुभिस्तस्या विवाहः शोभनोऽभवत् । सर्वस्वजनगोपानामेकं शृङ्गारकारणम् ॥३१४॥ गोपाः प्रीता रूपवन्तौ द्वावृक्षाणौ त्रिहायणौ । नाम्ना कम्बल - शबलौ श्रेष्ठ्यर्थमुपनिन्यिरे ॥३१५॥ श्रेष्ठिनोऽनाददानस्याऽप्युक्षाणौ ते बलादपि । द्वारे बद्ध्वा ययुर्गोपा गोपानां स्नेह ईदृशः ||३१६|| [[अथ दध्यौ जिनदासो मुच्येते यद्यमू वृषौ । हलादौ योजयिष्येते तदा हि प्राकृतैर्नरैः ॥३१७॥ इह चाऽनुपकारित्वाद् दुष्पालौ किं करोमि हा ! । कीदृशे पातितोऽस्म्येष मूर्खस्नेहेन संकटे ? ॥३१८॥ इति ध्यात्वा कृपापूर्णः श्रेष्ठी तावपुषद् वृषौ । तृणादिना प्राशुकेन पयसा गलितेन च ॥३१९॥ श्रेष्ठ्यष्टम्यां चतुर्दश्यामुपवास्यात्तपौषधः । अवाचयद्धर्मशास्त्रपुस्तकं शृण्वतोस्तयोः ॥३२०|| जज्ञाते भद्रकौ तौ च धर्माकर्णनतोऽन्वहम् । श्रेष्ठी यत्राऽह्नि नाऽभुक्त नाऽभुञ्जातां च तत्र तौ ॥३२१|| तृणादिकं दीयमानमपि तत्र दिने यदा । न वृषौ बुभुजाते तौ तदा श्रेष्ठीत्यचिन्तयत् ॥३२२॥ मयाऽनुकम्पया पुष्टावियत्कालं वृषाविमौ । अतः परं पोषणीयौ बन्धू साधर्मिकाविति ॥३२३|| तयोर्वृषभयोरेवं बहुमानं विशेषतः । चक्रे दिने दिने श्रेष्ठी न हि तौ तद्धिया पशू ॥३२४|| भण्डीरवणयक्षस्य जज्ञे यात्रोत्सवोऽन्यदा । वाहनानां वाहकेली चाऽऽरेभे ग्रामदारकैः || ३२५॥ वयस्यो जिनदासस्य कौतुकी तौ वृषावुभौ । अनापृच्छ्य गृहीत्वाऽगात् स्नेहे ह्यद्वैतमानता ॥ ३२६ ॥
३१
१. अरे ! खं. ४ । २. संवर्तानिल० मु । संवर्त - अग्निवद् भीषणम् । ३. समुत्पत्य नि० खं. १-२ । ४. ऊर्ध्वमुदच्छलत्, अधो न्यपतत् । ५. गजस्य शुण्डावत्-इत्यर्थः प्रतिभाति । ६. कूपकस्तस्याः खं. १-२ । ७. नावा खं. १-२ । ८. वस्त्रादि उपस्करप्रदानेन । ९. क्षणमपि समयो नास्ति ययोस्तौ । १०. ०मेकशृङ्गार० मु. । ११. त्रिहायनौ खं. ४, मु. । १२. मूर्खे: स्नेहेन खं. ४, नूतन मु. । १३. ०पोषधः खं. ३ |