________________
३०
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व आख्यञ्जनानां तद्गोपास्ततस्तत्राऽऽगमञ्जनाः । ववन्दिरे महावीरममहंश्च महोरगम् ॥२७४॥ घृतविक्रयकारिण्यो गच्छन्त्यस्तेन वर्त्मना । नागं हैयङ्गवीनेनाऽम्रक्षयन् पस्पृशुश्च तम् ॥२७५।। आगत्य घृतगन्धेन तीक्ष्णतुण्डाः पिपीलिकाः । चक्रिरे तितंउप्रायमहेस्तस्य कलेवरम् ॥२७६।। मत्कर्मणां कियदेतदित्यात्मानं विबोधयन् । वेदनामधिसेहे तां दुस्सहां सोऽहिपुङ्गवः ॥२७७।। वराक्यो मा स्म पील्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदङ्गं न मनागपि महोरगः ॥२७८।। सिक्तः कृपासुधावृष्ट्या दृष्ट्या भगवतोरगः । पक्षान्ते पञ्चतां प्राप्य सहस्रारदिवं ययौ ॥२७९।। पाएवं कौशिकनागायोपकृत्य निरगावनात् । प्राप चोत्तरैचावालसन्निवेशं जगद्गुरुः ॥२८०॥ पक्षान्ते पारणार्थं च भ्रमन् गोचरचर्यया । गृहिणो नागसेनस्य सदने प्रययौ प्रभुः ॥२८१॥ तत्राऽहनि द्वादशाब्दया गृहिणस्तस्य नन्दनः । अचिन्तितस्तदाऽभ्यागाद्धर्षदोऽनभ्रवृष्टिवत् ॥२८२।। उत्सवो नागसेनेन तेनाऽकारि स्ववेश्मनि । भोजितः स्वजनोऽशेष: स्वाम्यायातश्च वीक्षितः ॥२८३।। दूरात् स्वामिनमालोक्य प्रमोदमधिकं वहन् । नागसेनोऽपि पयसा भक्तिमान् प्रत्यलाभयत् ॥२८४|| तत्राऽमरैरहो दानं सुदानमिति भाषिभिः । वसुधाराप्रभृतीनि पञ्च दिव्यानि चक्रिरे ॥२८५।। पारयित्वा प्रभुरपि श्वेतवीं नगरीं ययौ । प्रदेशिना नरेन्द्रेण जिनभक्तेन भूषिताम् ॥२८६॥ पौरा-ऽमात्य-चमपाद्यैः प्रदेशी परिवारितः । मघवेवाऽपरोऽभ्येत्य जगन्नाथमवन्दत ॥२८७॥ प्रदेशी स्वपुरेऽथाऽगात् स्वामी च विहरन् क्रमात् । नगरं सुरभिपुरं तपःसुरभिरभ्यगात् ॥२८८।। पामेदिन्या इव संव्यानं प्रतिमानमिवाऽम्बुधेः । गङ्गां तरङ्गिणीमुच्चतरङ्गामासदत् प्रभुः ॥२८९।। तां तितीर्घः सिद्धदत्तनाविकप्रगुणीकृताम् । आरोहद्भगवान्नावं पथिका अपरेऽपि हि ॥२९०॥ दण्डाभ्यां चाल्यमानाभ्यां पक्षाभ्यामिव पक्षिणी । त्वरितं गन्तुमारेभे नौरभ्युद्यतनाविका ॥२९१।। वाशितं कौशिकेनोच्चैस्तदानीं तटवर्तिना । क्षेमिलाख्यः शकुनज्ञोऽवोचत् क्षेमं न खल्विह ॥२९२।। प्राप्तव्यमचिरात् सर्वैर्व्यसनं मरणान्तिकम् । महर्षेरस्य महिम्ना तस्मान्मोक्ष्यामहे परम् ॥२९३|| ब्रुवाण एव तत्रैवं नौरगाधं जलं ययौ । सुदाढो नागकुमारस्तत्रस्थं चैक्षत प्रभुम् ॥२९४।। स्मृत्वा प्रोग्जन्मवैरं स क्रुध्यन्नेवमचिन्तयत् । सोऽयं येन त्रिपृष्टत्वे सिंहोऽहं निहतस्तदा ॥२९५।। एतद्देशातिदूरस्थे गिरौ निवसता मया । नाऽपराद्धं तदा किञ्चित् त्रिपृष्टस्य सतोऽस्य हि ॥२९६।। निजदोर्वीर्यदर्पण कुतूहलचिकीर्षया । गुहामध्ये निलीनोऽहं तदानीं निहतोऽमुना ॥२९७|| दिष्ट्यैष गोचरे दृष्ट्योर्वैरं स्वं साधयाम्यहम् । वैरं हि ऋणवत् पुंसां जन्मान्तरशतानुगम् ॥२९८।। आसन्नमप्यवसानं मम खेदाय नाऽधुना । प्राग्वैरसाधनादद्य कृतार्थीकृतजन्मनः ॥२९९।। एवं विचिन्त्य सामर्षः सुदाढो विकटेक्षणः । एत्योपवीरं व्योमस्थश्चक्रे कि लिकिलारवम् ॥३००।
१. अपूजयन् । २. घृतेन । ३. 'चाळणी' सदृशम् । ४. निबोध० मु. । ५. दुःसहां खं. १-२-३-४ । ६. चोत्तरवाचाल० खं. ३-४ । ७. सन्धानं खं. १ । संव्यानं उत्तरीयवस्त्रम् । ८. सिद्धदन्त० मु. । ९. वासितं खं. १-२-३ । शब्दितम् । १०. घूकेन । ११. तत्र-क्षेमिले एवं ब्रुवाणे एव । १२. प्राग्भव० खं. ४ । १३. गोचरो दृष्ट्याः मु. । १४. स्वं वैरं मु. । १५. मरणम् । १६. किलकिला० खं. ४. मु. ।