________________
तृतीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । अभवत्पदसञ्चारं सुषमीभूतवालुकम् । उदपानावहत्कुल्यं शुष्कजर्जरपादपम् ॥२४९॥ जीर्णपर्णचयास्तीर्ण कीर्णं वल्मीकपर्वतैः । स्थलीभूतोटजं जीर्णारण्यं न्यविशत प्रभुः ॥२५०।। (युग्मम्) तत्र चाऽथ जगन्नाथो यक्षमण्डपिकाऽन्तरे । तस्थौ प्रतिमया नासाप्रान्तविश्रान्तलोचनः ॥२५१।। पाततो दृष्टिविषः सर्पः सदर्पो भ्रमितुं बहि: । बिलान्निरसरज्जिह्वां कालरात्रिमुखादिव ॥२५२।। भ्रमन् सोऽनुवनं रेणुसंक्रामद्भोगलेखया । स्वाज्ञालेखामिव लिखन्नीक्षाञ्चक्रे जगद्गुरुम् ॥२५३।। अत्र मां किमविज्ञाय किमवज्ञाय कोऽप्यसौ । आः प्रविष्टो निराशङ्ख निष्कम्पः शङ्कवत् स्थितः ? ॥२५४|| तदेनं भस्मसादद्य करोमीति विचिन्तयन् । आध्मायमानः कोपेन फटाटोपं चकार सः ॥२५५।। ज्वालामालामुद्वमन्त्या निर्दहन्त्या लताद्रुमान् । भगवन्तं दृशाऽपश्यत् स्फारफूत्कारदारुणः ॥२५६।। दृष्टिज्वालास्ततस्तस्य ज्वलन्त्यो भगवत्तनौ । विनिपेतुर्दुरालोका उल्का इव दिवो गिरौ ॥२५७।। प्रभोर्महाप्रभावस्य प्रभवन्ति स्म नैव ताः । महानपि मरुन्मेरुं किं कम्पयितुमीश्वरः ? ॥२५८।। दारुदाहं न दग्धोऽसावद्यापीति क्रुधा ज्वलन् । दर्श दर्श दिनेशं द्विग्ज्वाला: सोऽमुचत् पुनः ॥२५९।। संपन्नासु प्रभौ वारिधाराप्रायासु तास्वपि । ददंश दन्दशूकः स निःशूकः पादपङ्कजे ॥२६०॥ दष्ट्वा दष्ट्वाऽपचक्राम स्वविषोद्रेकदुर्मदः । यत्पतन्मद्विषाक्रान्तो मृनीयादेष मामपि ॥२६१।। दशतोऽप्यसकृत्तस्य न विषं प्राभवत्प्रभौ । गोक्षीरधाराधवलं केवलं रक्तमक्षरत् ॥२६२।। ततश्चः पुरतः स्थित्वा किमेतदिति चिन्तयन् । वीक्षांचके जगन्नाथं वीक्षापन्नः स पन्नगः ।२६३।। ततो निरूप्य रूपं तदसरूपं जगदगुरोः । कान्तसौम्यतया मंक्षु विध्याते तद्विलोचने ॥२६४|| पाउपसन्नं च तं ज्ञात्वा बभाषे भगवानिति । चण्डकौशिक ! बुध्यस्व बुध्यस्व ननु मा मुहः ॥२६५।। श्रुत्वा तद्भगवद्वाक्यमूहापोहं वितन्वतः । पन्नगस्य समुत्पेदे स्मरणं पूर्वजन्मनाम् ॥२६६।। ततः प्रदक्षिणीकृत्य स त्रिस्त्रिभुवनेश्वरम् । निष्कषायः स्वमनसाऽनशनं प्रत्यपद्यत ॥२६७।। कृतानशनकर्माणं निष्कर्माणं महोरगम् । प्रशमापन्नमज्ञासीदन्वज्ञासीच्च तं प्रभुः ॥२६८।। कुत्राप्यन्यत्र मा यासीद् दृष्टिर्मे विषभीषणा । इति तुण्डं बिले क्षिप्त्वा पपौ स समताऽमृतम् ॥२६९।। तस्थौ तथैव तत्रैव स्वामी तदनुकम्पया । परेषामुपकाराय महतां हि प्रवृत्तयः ॥२७०।। भगवन्तं तथा दृष्ट्वा विस्मेयस्मरलोचनाः । गोपाला वत्सपालाश्च तत्रोपससृपुर्वृतम् ॥२७१।। वृक्षान्तरे तिरोभूय यथेष्टं ग्रावलोष्टुभिः । प्रणिजघ्नुरनिघ्नास्ते पन्नगस्य महात्मनः ॥२७२।। तथाप्यविचलं ते तं वीक्ष्य विश्रम्भभाजिनः । यष्टिभिर्घट्टयामासुर्निकटीभूय तत्तनुम् ॥२७३।।
१. सञ्चारसु० खं. १-२ विना । २. उदपानं 'हवाडो' इति भाषायाम्, तस्मादावहन्ती कुल्या (नीक) यस्मिंस्तत् । ३. ०पर्णतया० खं. ३ । ४. कालरात्रिनिशाचरः, तस्य मुखाज्जिह्वा इव । ५. संप्रविष्टो० खं. ३ । ६. शङ्क: स्थाणुः । ७. दारु-काष्ठं तद्वदस्य दाहो न जातः । ८. सर्पः । ९. निर्दयः । १०. अवाक् भूत्वा वीक्षमाणः । ११. उपशान्तं समीपे निषण्णं वा । १२. तज्ज्ञात्वा खं. १-२ । १३. ०लेष्टुभिः मु. । १४. प्रतिजनु० खं. ४ । १५. स्वच्छन्दाः ।