________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व पृष्ठलग्नस्त्रयोदशमासान्ते ब्राह्मणस्तु सः । तद्वस्त्रार्धमुपादाय वन्दित्वा च प्रभुं ययौ ॥२२२॥ तुन्नवायस्य तस्यैव हृष्टो विप्रस्तदार्पयत् । सोऽपि ते देवदूष्यार्धे अयोजयदसन्धिवत् ।।२२३।। दीनारलक्षं तन्मूल्यं बन्धू इव विभज्य तौ । अर्धमधू जगृहतुस्तुन्नवायो द्विजश्च सः ॥२२४|| पाइतश्च भगवान् वीरः समीरण इवाऽस्खलन् । श्वेतव्यभिमुखं गच्छन्नित्यूचे गोपदारकैः ॥२२५।। देवार्याऽयमृजुः पन्थाः श्वेतवीमुपतिष्ठते । किं त्वन्तरेऽस्य कनकखलाख्यस्तापसाश्रमः ॥२२६।। स हि दृग्विषसर्पणाऽधिष्ठितो वर्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि ॥२२७|| विहाय तदमुं मार्ग वक्रेणाऽप्यमुना व्रज । सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ? ॥२२८।। पातं चाऽहिं प्रभुरज्ञासीद्यदसौ पूर्वजन्मनि । क्षपकः पारणकार्थं विहर्तुं वंसतेरगात् ॥२२९।। गच्छता तेन मण्डूकी पादपाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ॥२३०।। सोऽथ प्रत्युत मण्डूकीर्दर्शयन् लोकमारिताः । ऊचे क्षुल्लं मया क्षुद्र ! किमेता अपि मारिताः ? ॥२३१।। तूष्णीकोऽभूत्ततः क्षुल्लोऽमस्त चैवं विशुद्धधीः । महानुभावो यदसौ सायमालोचयिष्यति ॥२३२॥ आवश्यकेऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावद्विस्मृताऽस्य विराधना ॥२३३॥ अस्मारयच्च तां भेकीमालोचयसि किं न हि ? । क्षपकोऽपि क्रुधोत्थाय क्षुल्लं हन्मीति धावितः ॥२३४|| कोपान्धश्च ततः स्तम्भे प्रतिफल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केषूपपद्यत ॥२३५।। स च्युत्वा कनकखले सहस्रार्धतपस्विनाम् । पत्युः कुलपतेः पत्न्याः पुत्रोऽभूत् कौशिकाह्वयः ॥२३६।। तत्र कौशिकगोत्रत्वादासन्नन्येऽपि कौशिकाः । अत्यन्तकोपनत्वाच्च स ख्यातश्चण्डकौशिकः ॥२३७|| श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते । असौ कुलपतिस्तत्र तापसानामजायत ॥२३८॥ मूर्च्छया वनखण्डस्य सोऽन्तर्भ्राम्यन्नहर्निशम् । अदात् कस्यापि नाऽऽदातुं पुष्पं मूलं फलं दलम् ॥२३९।। विशीर्णमपि योऽगृह्णाद्वने तत्र फलादिकम् । उत्पाट्य परशुं यष्टि लोष्टुं वा तं जघान सः ॥२४०॥ फलाद्यलभमानास्तु सीदन्तस्ते तपस्विनः । पतिते लगुडे काका इव जग्मुर्दिशो दिशम् ॥२४१।। अन्येद्युः कटिकाहेतोः कौशिके बहिरीयुषि । अभांक्षुर्मुक्षु राजन्याः श्वेतव्या एत्य तद्वनम् ॥२४२।। अथ व्यावर्तमानस्य गोपास्तस्य न्यवीविदन् । पश्य पश्य वनं कैश्चिद्भज्यते भज्यते तव ॥२४३।। जाज्वल्यमानः क्रोधेन हविषेव हुताशनः । अकुण्ठधारमुद्यम्य कुठारं सोऽभ्यधावत ॥२४४|| राजपुत्रास्ततो नेशुः श्येनादिव शकुन्तयः । स्खलित्वा च पपाताऽयं यमवक्त्र इवाऽवटे ॥२४५।। पततः पतितस्तस्य संमुखः परशुः शितः । शिरो द्विधा कृतं तेन ही विपाकः कुकर्मणाम् ॥२४६।।
स विपद्य वनेऽत्रैव चण्डोऽहिर्टग्विषोऽभवत् । क्रोधस्तीव्रानुबन्धो हि सह याति भवान्तरे ॥२४७|| पाअवश्यं चैष बोधार्ह इति बुद्ध्या जगद्गुरुः । आत्मपीडामगणयन्नृजुनैव पथा ययौ ॥२४८॥
१. ०मास्यन्ते खं. ३-४, मु. । २. ०खलाख्यता० मु. । ३. वसतिः साधूनामुपाश्रयः । ४. प्रतिस्फल्य खं. ४, मु. । ५. मृत्युं प्राप्ते इत्यर्थः । ६. अन्येधुर्वाटिका० मु. ।