________________
तृतीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । सिद्धार्थोऽप्यब्रवीदत्र वीरघोषोऽस्ति कर्मकृत् । तच्छ्रुत्वा वीरघोषोऽपि प्रणम्य स्वमदर्शयत् ॥१९५।। आदिशेति च तेनोक्ते सिद्धार्थः पुनरभ्यधात् । भाजनं ते दशपलं नष्टपूर्वं निकेतनात् ? ॥१९६।। आमेत्युक्ते च घोषेण सिद्धार्थः स्माऽऽह तत्खलु । हृतं पाखण्डिनाऽनेन प्रत्ययोऽत्र निरीक्ष्यताम् ॥१९७।। पश्चान्निजौकसः प्राच्यां दिशि शिग्रुमहीरुहः । हस्तमात्रमधः क्षिप्तमस्ति गत्वा गृहाण तत् ॥१९८॥ उत्कौतुकैर्वृतो लोकैर्वीरघोषस्तदालये । भाजनं तत्तथाऽऽख्यातं गृहीत्वा पुनराययौ ॥१९९।। ग्राम्यानुत्तुमुलान् भूयः सिद्धार्थः प्रोचिवानिति । भूयोऽपि श्रूयतामिन्द्रशर्मेत्यत्रास्ति किं गृही ? ॥२००।। अस्तीत्यभिदधे लोक इन्द्रशर्माऽप्युपस्थितः । आज्ञापयाऽयमस्मीति वदन् प्राञ्जलिरग्रतः ॥२०१।। सिद्धार्थोऽभिदधे भद्र ! नष्ट: किं ते पुरा हुडु: ? । एवमेतदित्यवोचदिन्द्रशर्मा सविस्मयः ॥२०२॥ सिद्धार्थः स्माऽऽह हत्वा स भक्षितो भिक्षुणाऽमुना । बदर्या दक्षिणे पार्श्वेऽवकरेऽस्थीनि तस्य तु ॥२०३।। लोकाश्च कौतुकाद् गत्वा तदस्थीनि व्यलोकयन् । सन्तीत्यभिदधानास्तु भूयस्तत्र समाययुः ॥२०४|| सिद्धार्थः पुनरप्यूचे तृतीयमपि चेष्टितम् । अस्यास्ति तदस्तु परं कथयिष्यामि न ह्यहम् ।।२०५।। आख्याहि सर्वथा तन्नः प्रसीदेति पुनः पुनः । ग्राम्यास्तमब्रुवन् रम्या स्यादर्धकथिता कथा ॥२०६।। अथाऽभाषिष्ट सिद्धार्थो नाऽऽख्यास्यामि तथाप्यहम् । कौतूहलं चेत्तद्भार्यां गत्वा पृच्छत तद्गृहे ॥२०७|| तद्वेश्मनि ययौ लोकः स्वभार्या तेन तद्दिने । कुट्टिताऽमर्षवत्येवं सानदृक् चिन्तयन्त्यभूत् ॥२०८।। सुष्ठु जातं तदेतस्य कराङ्गल्यो निकर्तिताः । न्यत्कृतश्चाऽखिलैर्लोकैर्लोकः संप्रत्युपैति चेत् ॥२०९।। अस्य दुश्चरितं सर्वं तदा प्रकटयाम्यहम् । यथैष लभते पापो मत्कुट्टनभवं फलम् ॥२१०।। अथाऽऽययौ ग्रामजनोऽपृच्छत्तच्चेष्टितं च ताम् । साऽवोचत् कोऽस्य नामापि गृह्णीयात् पापकारिणः ? ॥२११।। यदसावात्मनः स्वस्रा समं वैषयिकं सुखम् । भुङ्क्ते धिक्कर्मचण्डालो न मामिच्छति जातुचित् ॥२१२।। एवं श्रुत्वा कलकलं कुर्वाणा ग्रामवासिनः । ययुनिजनिजं गेहमच्छन्दकविगर्हिणः ॥२१३|| सर्वत्र पाप पापेति भय॑मानः स भिक्षुकः । भिक्षामप्याप न क्वापि धिक् प्रतिष्ठाच्युतं नरम् ॥२१४|| श्रीवीरं विजने गत्वा नत्वा दीनो जगाद सः । भगवंस्त्वमितो याहि पूज्यः सर्वत्र पूज्यते ॥२१५।। अत्रैवाऽोऽस्मि नाऽन्यत्र नामापि ज्ञायते मम । स्वदर्यामेव शौर्यं हि गोमायोर्न पुनर्बहिः ॥२१६।। अजानता दुर्विनयो यो मयाऽकारि नाथ ! ते । संप्राप्तं तत्फलं संप्रत्यनुकम्पस्व मामतः ॥२१७|| अप्रीतिमत्परीहाराभिग्रही भगवानथ । चचालोतरचावालं सन्निवेशं प्रति प्रभुः ॥२१८॥ दक्षिणश्चोत्तरश्चेति चावालौ द्वौ तदन्तरे । सुवर्णवालुका स्तव्यवालुका चेति निम्नगे ॥२१९॥ दक्षिणादुत्तरे यातश्चावालेऽथाऽलगत् प्रभोः । कण्टके देवदूष्यार्धं सुवर्णवालुकातटे ॥२२०।। किञ्चिद् गत्वा प्रभुर्मा भूद् भ्रष्टमस्थण्डिले ह्यदः । इति तद्वीक्ष्य वस्त्रार्धं गन्तुं प्रववृते ततः ॥२२१।।
१. निरीक्षताम् खं. ३ । २. शिग्रु:-'सरगवो' इति गुर्जरभाषायाम् । ३. कोलाहलपरायणान् । ४. लोके खं. १-२ । ५. हुड: खं. १-२ । अजः । ६. पार्श्वे चक्रिरेऽस्थीनि खं. १-२ । अवकर: 'ऊकरडो' इति भाषायाम् । ७. रुदती । ८. चिन्तयत्यभूत् खं. १-२ । ९. न्यक्कृत० नूतन मु. । तिरस्कृतः । १०. ०चाण्डालो खं. ४, मु. । ११. भगवन्नन्यतो खं. ३-४, मु. । १२. अत्रैवाऽर्यो० खं. ४, मु. । १३. स्वगुहायाम् । १४. मां ततः मु. । १५. ०वाचालं खं. ३-४ । ०चावालस०. खं. १-२ । १६. वाचालौ खं. ३-४ । १७. नद्यौ । १८. यातो वाचाले० खं. ३-४ । ०ले चाऽल० खं. ४ ।