________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
अनुगच्छन् शूलपाणिः प्रभुं नत्वाऽभ्यधादिदम् । स्वसौख्यनिरपेक्षस्त्वमिहाऽऽगा मेऽनुकम्पया ॥१६६॥ न पापो मत्समः कोऽपि यस्त्वय्यप्यपकारकृत् । न सार्वस्त्वत्समः कोऽपि यो मय्यप्युपकारकृत् ॥१६७॥ अद्य यावदार्जयिष्यं कामहं नरकावनिम् । नाऽबोधयिष्यस्त्वं चेन्मां विश्वोपकृतिकर्मठे ! ॥१६८॥ इत्युदित्वा भक्तिगर्भं भगवन्तं प्रणम्य च । शूलपाणिर्निववृते शान्तो द्विप इवाऽमदः ॥ १६९ ॥ [दीक्षादिनादतीतेऽब्दे मोराकं सन्निवेशनम् । गत्वा तद्बहिरुद्याने स्वाम्यस्थात् प्रतिमाधरः ॥ १७० ॥ तस्मिन्नच्छन्दको नाम पाखण्डी सन्निवेशने । ज्योतिष्कमन्त्रतन्त्रादिकरणेन स्म जीवति ॥ १७१ ॥ तस्याऽसहिष्णुर्माहात्म्यं स्वाम्यर्चं चाभिलाषुकः । सिद्धार्थव्यन्तरः कृत्वा संक्रमं स्वार्मिवर्ष्मणि ॥१७२॥ यान्तमाहूय गोपालमूचे भो ! भुक्तवानसि । कङ्गुकूरं ससौवीरं ? वृषांस्त्रातुं च गच्छसि ? ॥१७३॥ आगच्छंश्चाऽहिमद्राक्षीः ? स्वप्नेऽरोदीश्च निर्भरम् ? । तदेतत् संवदति किं ? सत्यमाख्याहि गोपक ! ॥१७४॥ सत्यमेवेति तेनोक्ते सिद्धार्थस्तस्य भूरिशः । भूयस्तत्तत्समाचख्यौ प्रत्ययोत्पत्तिकारणम् ॥१७५॥ गोपः सविस्मयो ग्रामे गत्वाऽऽख्यद्यद् बहिर्वने । देवार्योऽस्ति त्रिकालज्ञः सोऽपूरि प्रत्ययान्मम ॥ १७६ ॥ तच्छ्रुत्वा कौतुकात् पूर्णस्तूर्णं ग्रामजनोऽखिलः । पुष्पाक्षतादिपूजाभृदाययौ स्वामिसन्निधौ ॥१७७॥ सिद्धार्थः स्वामिसंक्रान्तो ग्रामीणानब्रवीदिदम् । द्रष्टुं मेऽतिशयं यूयं सर्वे स्थ किमिहाऽऽगताः ? ॥१७८॥ ग्राम्यैरामेत्यभिहिते यत्तैर्दृष्टं कृतं श्रुतम् । उक्तं च प्राक् तदानीं च सिद्धार्थस्तदचीकथत् ॥१७९॥ सिद्धार्थो भावि चाऽऽचख्यौ श्रुत्वा लोकस्ततोऽकरोत् । प्रभोः पूजां वन्दनां च महामहिमपूर्वकम् ॥१८०॥ एवं च प्रत्यहं लोकेष्वापतत्सु पतत्सु च । सिद्धार्थव्यन्तरस्याऽभून्मनः प्रीतिर्गरीयसी ॥१८१॥ [[ऊचुस्तत्राऽन्यदा ग्राम्याः स्वामिन्नच्छन्दकाभिधः । ग्रामे परिवसत्यस्मिन् सोऽपि वेत्ति भवानिव ॥ १८२ ॥ सिद्धार्थस्तानभाषिष्ट न स जानाति किञ्चन । ऋजून् प्रतार्य भवतः करोत्युदरपूरणम् ॥१८३॥ ते गत्वाऽच्छन्दकं स्माऽऽहुर्न त्वं जानासि किञ्चन । सर्वं जानाति देवार्यो भावि भूतं भवच्च यत् ॥१८४॥ स्वप्रतिष्ठाभ्रंशभीरुर्बभाषे ऽच्छन्दकोऽप्यदः । स वः पुरो वेत्ति परं परमार्थमजानताम् ॥ १८५ ॥ पुरो मम यदि ज्ञाता मन्ये ज्ञाता तदा हि सः । गत्वा तस्याऽज्ञतामाविष्करोम्येषोऽद्य पश्यत ॥१८६॥ इत्युक्त्वाऽच्छन्दकः क्रुद्धो वृतो ग्राम्यैः सकौतुकैः । कायोत्सर्गस्थितं नाथं द्रुतद्रुतमुपाययौ ॥१८७|| कराङ्गुलीभिः स तृणं गृहीत्वोभयपार्श्वयोः । ऊचे नाथं तृणमिदं किं मया छेत्स्यते न वा ? ॥१८८॥ भावस्तस्याऽभवच्चाऽयं देवार्यो यद्वदिष्यति । तत्प्रतीपं करिष्यामि स्याद्यथाऽनृतवास ॥१८९॥ आचचक्षे च सिद्धार्थो न छेत्स्यत इदं तृणम् । अच्छन्दकोऽपि तच्छेत्तुमारेभे सज्जिताङ्गुलिः ॥१९०॥ दध्यौ शक्रस्तदा स्वामी विहरत्यधुना कथम् ? । दत्तोपयोगश्चाऽपश्यत्तदच्छन्दकचेष्टितम् ॥१९१॥ मा भूत्स्वामिमुखोद्गीर्णा गीरसत्येति वज्रभृत् । वज्रेण चिच्छेद दशाऽप्यच्छन्दक कराङ्गुलीः ॥१९२॥ वीक्षापन्नस्तृणाच्छेदाद्धस्यमानोऽखिलैर्जनैः || अच्छन्दकोऽन्यतोऽगच्छदुन्मत्त इव मूढधीः ॥ १९३॥ सिद्धार्थोऽथाऽवदद् ग्राम्यांस्तस्करो ऽच्छन्दको ह्ययम् । ग्राम्याः प्रत्यूचिरे स्वामिन्! किं कस्याऽनेन चोरितम् ? ॥१९४॥
१०
२६
१. स्वार्य० खं. ४, मु. । सार्वः सर्वहितः । २. ०कर्मठः खं. १-२-३ । ३. भक्तिगर्भो खं. ३, मु. । ४. स्वाम्यर्चावाभि० खं. १-२ । ५. प्रभु-देहे । ६. कौतुकापूर्ण० खं. ४, मु. । ७. ० मावि : करोम्येषो० खं. १-४ । ८. दुतं द्रुतं० खं. ४, मु.। ९. तद्विपरीतम् । १०. अवाक् भूत्वा वीक्षमाणः ।