________________
तृतीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । तीर्थकरं भगवन्तं सिद्धार्थनृपनन्दनम् । जगत्त्रयस्यापि पूज्यं किं न जानासि दुर्मते !? ॥१३७|| यदि त्वच्चरितं शक्रः स्वामिभक्तोऽद्य वेत्स्यति । तदा तत्कुलिशधाराक्षोदपात्रीभविष्यसि ॥१३८||
शूलपाणिस्ततो भीत्या पश्चात्तापेन चाऽऽकुलः । पुनरक्षमयन्नाथं नाऽन्यदौपयिकं तदा ॥१३९॥ पातं प्रशान्तं च सिद्धार्थः सानुकम्पोऽभ्यधादिदम् । अहो तत्त्वानभिज्ञोऽसि शृणु तत्त्वं यथातथम् ॥१४०॥ वीतरागे देवबुद्धिर्गुरुबुद्धिश्च साधुषु । धर्मे जिनोदिते धर्मबुद्धिरित्यात्मसात् कुरु ॥१४१।। प्राणिष्वतः परं पीडां मा कार्षीरात्मनीव भोः ! । निन्देहेश्च सर्वाणि पूर्वदुश्चरितानि च ॥१४२।। अप्येकदाऽऽचरितस्य हन्त तीव्रस्य कर्मणः । कोर्टीकोटिगुणं दु:खविपाकं जन्तुरश्नुते ॥१४३।। शूलपाणिस्तदाकाऽनेकप्राणिक्षयं कृतम् । स्मरन्मुहुर्निनिन्द स्वं पश्चात्तापाधिवासितः ॥१४४|| सम्यक्त्वभृद्भवोद्विग्नः सोऽचित्वा चरणौ प्रभोः । आगोमलक्षालनाम्भः सङ्गीतमुपचक्रमे ॥१४५।। तद्गीतशब्दमाकर्ण्य ग्राम्या एवमचिन्तयन् । मन्ये व्यापाद्य देवार्यं देवः क्रीडति संप्रति ॥१४६।। पानाथोऽपि चतुरो यामान् किञ्चिदूनान् कदर्थितः । श्रमान्निद्रामधिगतोऽपश्यत् स्वप्नानमून् दश ॥१४७|| वर्धिष्णुस्तालपिशाचः स्वयं व्यापादितः किल । कोकिलौ श्वेतचित्रौ च सेवमानौ स्वसन्निधौ ॥१४८|| दामद्वयं च गन्धाढ्यं गोवर्गः सेवनोद्यतः । पद्माञ्चितं पद्मसरो दोर्ध्या तीर्णश्च सागरः ॥१४९।। उद्रश्मिकं चाऽर्कबिम्बमथाऽद्रिानुषोत्तरः । निजान्त्रैर्वेष्टितः स्वेनाऽऽरूढं मेरुशिरोऽपि च ॥१५०।। एवं प्रेक्ष्य दश स्वप्नान् प्राबुद्ध त्रिजगद्गुरुः । उदियाय च मार्तण्डो विवन्दिषुरिव प्रभुम् ॥१५१॥ तदा चाऽऽगाज्जनः सर्व इन्द्रशर्मोत्पलोऽपि च । अक्षताङ्गं पूजितं च प्रभुं प्रेक्ष्य मुदं ययौ ॥१५२।। साश्चर्याः प्रभुमभ्यर्च्य पुष्पप्रभृतिभिश्च ते । सिंहनादं विदधिरे वीरा इव जिताहवाः ॥१५३।। सिंहनादमुखास्ते तु परस्परमदोऽवदन् । देवार्येणाऽधुना दिष्ट्योपाशामि व्यन्तरश्चिरात् ॥१५४|| पाउत्पलोऽपि परिज्ञाय भगवन्तमवन्दत । निषसाद च तत्पादपद्मान्ते शिष्यलेशवत् ॥१५५।। कायोत्सर्गावसाने च प्रभुं नत्वोत्पलः पुनः । ज्ञानसामर्थ्यतो ज्ञातप्रभुस्वप्नोऽब्रवीदिदम् ॥१५६।। स्वामिन्निशान्ते युष्माभिः सुस्वप्नाः प्रेक्षिता दश । तत्फलानि स्वयं वेत्सि भक्त्याऽऽख्यामि तथाप्यहम् ॥१५७।। हतस्तालपिशाचो यत्तन्मोहं निहनिष्यसि । यच्छ्वेतः कोकिलः शुक्लध्यानमारोक्ष्यसीश ! तत् ॥१५८॥ यच्चित्रः कोकिलस्तद् द्वादशाङ्गी प्रथयिष्यसि । गोवर्गो यत्तु तद्भावी संघस्तव चतुर्विधः ॥१५९॥ यत्तु पद्मसरो देवनिकाय: सेवकस्ततः । यत्तु सागरमुत्तीर्ण उत्तरिष्यसि तद्भवम् ॥१६०।। यच्चाऽर्क: केवलज्ञानं तत्समुत्पत्स्यते तव । यच्चाऽऽन्त्रैर्वेष्टितोऽद्रिस्तत् सप्रतापं यशस्तव ॥१६।। यन्मेरुशृङ्गमारूढस्त्वं तत्सिंहासनस्थितः । धर्मं देक्ष्यसि यद्दाम्नी तयोर्वेद्मि फलं न हि ॥१६॥
अथाऽऽचचक्षे भगवान् दामद्वयफलं त्वदः । गृहस्थानां यतीनां च वक्ष्ये धर्मं द्विधापि हि ॥१६३।। qअथ नत्वा जगन्नाथं ययौ स्वस्थानमुत्पलः । विस्मयप्रमदोन्मुद्रमनसोऽथाऽपरेऽप्ययुः ॥१६४|| तत्राऽर्धमासक्षपणैश्चतुर्मासीमतीत्य ताम् । निरगादस्थिकग्रामाद्विहर्तुं प्रभुरन्यतः ॥१६५।।
१. वेत्स्यते खं. १-२ । २. तस्येन्द्रस्य कुलिशं–वजं तस्य धारया चूर्णपात्रं भविष्यसि । ३. कोटाकोटि० मु. । ४. ग्राम्य एवमचिन्तयत् मु. । ५. मध्ये खं. १-२ । ६. पद्माचितं खं. ३, मु. । ७. धीरा नूतन मु. । ८. दिष्ट्याऽप्यशमि खं. ३ । दिष्ट्योपशामि खं. १ । दिष्ट्योपशमि खं. २-४ । ९. तु मु. । १०. यच्चित्रको० मु. ।