________________
२४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व अपराद्धमदोऽस्माभिस्तथापि क्षाम्य शाम्य च । शरणं त्वां प्रपन्नाः स्मो ह्यनन्यशरणा वयम् ॥१०८।। तद्वाचा व्यन्तरः किञ्चिदुपशान्तोऽब्रवीदिति । अमूनि मानुषास्थीनि पुञ्जीकुरुत संप्रति ॥१०९।। तस्योपरि कुरुध्वं चाऽऽयतनं तस्य चाऽन्तरे । ममोक्षरूपानुगतां मूर्ति स्थापयतोच्चकैः ॥११०॥ एवं कृते प्राणितं वः प्रदास्ये नान्यथा पुनः । तथैव तद्वचस्तेऽपि ग्राम्या विदधुरादृताः ॥१११॥ पूजाकरं शूलपाणेरिन्द्रशर्माणमाख्यया । ग्रामः समादिशत्तस्मै कल्पितानल्पवेतनः ॥११२।। अत्राऽस्थिसंचयोऽस्तीति ग्रामोऽसावस्थिकाह्वयः । तदाप्रभृति लोकेऽभूद् वर्धमानाभिधोऽपि सन् ॥११३॥ श्रान्तां कार्पटिका रात्रौ वसन्त्यायतनेऽत्र ये । तद्रात्रावेव तान् हन्ति शूलपाणिः कृतान्तवत् ॥११४॥ स्थित्वा लोको दिनं ह्यनेन्द्रशर्मा च तदर्चकः । सायं स्वसदने याति तद्वस्तुं तेऽत्र नोचितम् ॥११५॥
इत्युक्त्वा ते पृथगपि स्वामिने वसतिं ददुः । प्रतीयेष न त स्वामी यक्षौकस्तत्त्वयाचत ॥११६॥ पाअथ ग्राम्यैरनुज्ञातो बोधार्ह व्यन्तरं विदन् । तदायतनैककोणे तस्थौ प्रतिमया प्रभुः ॥११७|| सायं कृत्वा धूपवेलामिन्द्रशर्मा तदर्चकः । निःसार्य पथिकान् सर्वान् भगवन्तमदोऽवदत् ॥११८।। अयि देवार्य ! निर्याहि त्वमप्यायतनादितः । अयं हि व्यन्तरः क्रूरो भावी ते निशि मृत्यवे ॥११९।। तस्थौ च स्वामी तूष्णीको व्यन्तरः सोऽप्यचिन्तयत् । अहो मुमूर्षुः कोऽप्येष ममाऽऽयतनमागमत् ॥१२०।। ग्रामेण वार्यमाणोऽपि मुहुर्मत्पूजकेन च । दृप्तः कोऽयमिहाऽवात्सीद् ? दर्पमस्य हरामि तत् ॥१२१।। पादेवार्चके ततो यातेऽस्तमिते च दिवाकरे । कायोत्सर्गस्थिते नाथेऽट्टहासं व्यन्तरोऽकरोत् ॥१२२॥ पुस्फोटेव नभोभाण्डं तुत्रोटेवोडुमण्डलम् । तेनाऽट्टहासशब्देनाऽतिरौद्रेण प्रसर्पता ॥१२३।। ग्रामलोकोऽपि तं शब्दं श्रुत्वाऽवोचत् परस्परम् । नूनं देवार्यकः सोऽद्य व्यन्तरेण निहन्यते ॥१२४|| पानाम्ना तत्रोत्पल: पार्श्वतीर्थसाधुचरस्तदा । परिवाडष्टाङ्गमहानिमित्तज्ञानपण्डितः ॥१२५॥ लोकाद्देवार्यवृत्तान्तं श्रुत्वाऽधादधृतिं हृदि । अपश्चिमस्तीर्थकरो मा स्म भूदिति शङ्कया ॥१२६॥ (युग्मम्) अट्टहासस्वरेणापि न चुक्षोभ यदा प्रभुः । हस्तिरूपं तदा घोरं व्यन्तरो विचकार सः ॥१२७।। स्वामिना हस्तिरूपे चाऽवज्ञाते सति निर्ममे । पिशाचरूपं सोऽत्युच्चै रोदसीमानदण्डवत् ॥१२८।। तेनाऽप्यक्षुभिते नाथे सर्परूपं भयङ्करम् । विचकार स दुष्टात्मा यमपाशायुधोपमम् ॥१२९।। प्रभुं स सर्पो दर्पान्धो भोगेनाऽवेष्टयद् दृढम् । ददंश दशनैर्बाढममोघविषनिर्भरः ॥१३०|| चक्रे सर्प मधाभते भूतराट सप्त वेदनाः । शिरो-नेत्र-श्रवो-नासा-दन्त-पृष्ठ-नखे प्रभोः ॥१३।। एकापि वेदना मृत्युकारणं प्राकृते नरे । अधिसेहे तु ताः स्वामी सप्तापि युगपद्भवाः ॥१३२॥ पाकृत्वा कृत्वेत्युपसर्गान्निविण्णो व्यन्तरः स तु । नत्वा विज्ञपयामास प्रभुमेवं कृताञ्जलिः ॥१३३||
मया दुरात्मना नाथ ! तव शक्तिमजानता । नितान्तमपराद्धं यत्तत्क्षमस्व दयानिधे ! ॥१३४॥ पातदा च सिद्धार्थसुरः स्वकार्यव्यग्रमानसः । स्वामिसान्निध्यविषयमस्मार्षीच्छक्रशासनम् ॥१३५।। साटोपमेत्य चेत्यूचे शूलपाणे ! सुराधम ! । अप्रार्थितप्रार्थक ! भोः ! किमेतद्भवता कृतम् ? ॥१३६।।
१. जीवितम् । २. ०दत: नूतन मु. । ३. प्रसर्पिणा मु. । ४. ०साधुवर० खं. ३, मु. । ५. महाघोरं मु. । ६. सोऽप्युच्चै० खं. ३-४, मु. । ७. रोदसी-आकाश-पृथिव्यौ, तयोर्मानस्य दण्डवत् । ८. ०र्गाढ० खं. ४ । ९. निर्झरः खं. ३, मु. । १०. सुधाभूते मु. ।