________________
तृतीयः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
ग्रामोऽयमभवत् पूर्वं वर्धमानोऽभिधानतः । नद्यस्ति वेगवत्यत्र पङ्किलोभयंकूलभूः ॥८१॥ तत्र भाण्डभृतैरागादनंसां पञ्चभिः शतैः । धनदेवो वणिक् तस्य चाऽभूदेको महावृषः ॥८२॥ तं महोक्षं धुरि कृत्वा सर्वाणि शकटानि सः । नद्या उत्तारयामास विषमाया अपि क्षणात् ॥८३॥ अतिभाराकर्षणेन मुखेन रुधिरं वमन् । स महोक्षः पपातोर्व्यां वेगँवाजीव सात्त्विकः ||८४|| संभूष्यं च वणिग्ग्राम्यानुवाच वृषसाक्षिकम् । पाल्योऽयं वृषभो न्यासीकृतजीवितवन्मम ॥८५॥ वृषस्य तृण–पानीयनिमित्तं च धनं बहु । ग्राम्याणामर्पयामास स्वामिधर्मो ह्ययं खलु ॥८६॥ ततो वणिक् स्वयमपि चारि - पानीयढौकनात् । प्रियाकृत्य महोक्षाय सास्रदृक् परतो ययौ ||८७|| q[धनमादाय ते ग्राम्यास्तृणवार्यादिना वृषम् । प्रतिचक्रुर्न तं पापा: कुवैद्या इव रोगिणम् ॥८८॥ संजातहृदयत्रोर्टः क्षुत्पिपासाकदर्थितः । चर्मकीकंसमात्राङ्गः स गौरेवमचिन्तयत् ॥८९॥ अहो ! निष्करुणो ग्रामः पापिष्ठो निष्ठुराशयः । चाण्डौं लनिर्विशेषोऽयमशेषोऽप्यतिवञ्चकः ॥९०॥ दूरे स्वयं करुणया दीनस्य मम पालनम् । मत्स्वामिदत्तमप्येभिर्जग्धं चार्यादिवेतनम् ॥९१॥ क्रुद्धोऽकामनिर्जरावान् स गौर्मृत्वोदपद्यत । व्यन्तरः शूलपाण्याख्यो ग्रामेऽत्रैव पुरा वने ॥९२॥ सोऽथाऽज्ञासीद्विभङ्गेन पूर्वजन्मकथां निजाम् । ददर्श गोवपुस्तच्च ग्रामायाऽस्मै चुकोप च ॥९३॥ व्यकार्षीद् व्यन्तरो मारिं स मारेर दैवतम् । मार्यमाणैरमी ग्राम्यैरभूवन्नस्थिसंचयाः ॥९४॥ अपृच्छंश्चाऽऽतुरा ग्राम्या मुहुर्ज्योतिर्विदादिकान् । चक्रुः शान्त्यै तदाज्ञां च वैद्याज्ञामिव रोगिणः ॥९५॥ विदधुर्गृहदेवीनां स्नानपूजादिकं मुहुः । नोपशान्तिरभून्मारेस्तथापि हि मनागपि ॥९६॥ ग्रामान्तराण्ययुर्ग्राम्या व्यन्तरः स तु कोपनः । युवराजो यमस्येवाऽमारयत् तांस्तथापि हि ॥९७|| ग्राम्या व्यचिन्तयंश्चैवं कोऽप्यस्माभिर्विरोधितः । देवो दैत्योऽथवा यक्षः क्षेत्रपालोऽपरोऽपि वा ॥९८॥ यामस्तत्रैव तद् ग्रामे तत्प्रसादनहेतवे । एवं विमृश्य ते भूयः सम्भूयेह समाययुः ॥ ९९ ॥ ते स्नाताः श्वेतवसना उत्तरासङ्गधारिणः मुक्तकेशाश्चत्वरेषु त्रिकेषूद्यानभूमिषु ॥ १०० ॥ भूतगेहेष्वथाऽन्यत्र क्षिपन्तः परितो बलिम् । ऊर्ध्वाननाः प्राञ्जलयो दीनास्या एवमूचिरे ॥ १०१ ॥ ( युग्मम्) भोः ! सुरा असुरा यक्ष-रक्षः-किंपुरुषादयः ! । यत्प्रमादान्मदाद्वाऽऽगस्तन्नः क्षाम्यन्तु सर्वथा ॥१०२॥ कोपः प्रणामावधिको महतां हि महानपि । तत्प्रसीदतु यः कश्चिदस्त्यस्माभिर्विरोधितः ॥१०३॥ व्यन्तरः सोऽन्तरिक्षस्थोऽथाऽब्रवीद्रे दुराशयाः ! । लुब्धा लुब्धकसंकाशाः ! क्षमणां कुरुताऽधुना ॥१०४॥ तदानीं वृषभस्य क्षुत्तृषाकान्तस्य तस्य तु । वणिग्दत्तधनेनापि दत्तं नाऽम्भस्तृणादि यत् ॥१०५॥ स मृत्वा वृषभोऽभूवं शूलपाणिरहं सुरः । तेन वैरेण वः सर्वान्मारयामि स्मरन्तु तत् ॥१०६॥ तच्छ्रुत्वा ते पुनस्तस्मै धूपोत्क्षेपणतत्पराः । लुठन्तो भूतले दीना भूयोऽप्येवं बभाषिरे ॥ १०७॥
१७
२३
१. पङ्किला उभयकूलयोर्भूः यस्याः सा । २. शकटानाम् । ३. तेजवाजीव खं. ३-४, मु. । 'वाजि' शब्दः पुंस्त्वे । अत्र तु स्त्रीत्वे प्रयुक्तो दृश्यते - 'वडवा' वाचकत्वेनेति लक्ष्यते । ४. संभाष्य नूतन मु. । ५. प्रियंकृत्य खं. ४ । प्रियं कृत्वा । ६. साश्रु० खं. ४ । ७. ०स्तृणचार्या० खं. १-२ । ८. ०हृदयक्रोधः खं. ४ । ९. कीकसं-अस्थि । १०. चण्डाल० खं. ३-४ । ११. पुरातने मु. | पुरवणे खं. १ । पुरोवने नूतन मु । १२. मारिर्मृत्युः, तस्य दैवतं - देवो यमः, तद्वत् । १३. आपृच्छं० खं. १ । १४. ० मदादाग० खं. ४ । आगः - अपराधः । १५. व्याधसदृशाः । १६. क्षमणं खं. २, मु. । १७. तत्र खं. ४ ।