________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व विजिहीर्षु भगवन्तमूचे कुलपतिः प्रगे । वर्षाकालस्त्वया कार्यो विविक्तवसताविह ॥५२॥ नीरागोऽपि वचस्तस्य प्रतिश्रुत्योपरोधतः । निरञ्जनः शङ्ख इव प्रययौ प्रभुरन्यतः ॥५३|| वायुरिवाऽप्रतिबद्धो निर्लेपः पद्मपत्रवत् । सर्वत्र विहरन् ग्रीष्मकालं स्वाम्यत्यवाहयत् ॥५४|| सिद्धार्थसुहृदस्तस्य स्मरन् कुलपतेर्वचः । स्वामी प्रावृषमत्येतुं मोराकं पुनरभ्यगात् ॥५५॥ वर्षत्युद्गजितं मेघेऽखण्डधारागृहोपमे । स्वस्वस्थानाय गच्छत्सु पथिकेष्वपि हंसवत् ॥५६।। प्रभोर्भ्रातृव्यतास्नेहसम्बन्धमधुराशयः ॥ गृहमेकं कुलपतिस्तृणाच्छादितमार्पयत् ॥५७॥ (युग्मम्) आजानुलम्बितभुजो जटावानिव पादपः । नियन्त्रितमनास्तत्र तस्थौ प्रतिमया प्रभुः ॥५८॥ भीष्मग्रीष्मर्तुमाहात्म्यान्निःशेषिततृणे वने । अनुद्यन्नूतनतृणे नवत्वात् प्रावृषोऽपि च ॥५९॥ अधावन् खादितुं गावस्तापसानां तृणोटजान् । निर्दयास्तापसास्ते गास्ता यष्टिभिरताडयन् ॥६०|| (युग्मम्) तैस्ताड्यमाना गावस्तास्तृणौक : स्वाम्यधिष्ठितम् । चखादुः स्तम्भनिभृते प्रभौ तासां कुतो हि भी: ? ॥६१॥ तापसा अपि तत्प्रेक्ष्याऽक्रुध्यन्नेवं प्रभुं प्रति । रक्षामो वयमुटजान् स्वं न रक्षत्यसौ पुनः ॥६२॥ अहो कुलपतेः कोऽयमतिथिर्यस्य पश्यतः । चखादुर्गाव उटजमहो स्वार्थैकनिष्ठता ! ॥६३|| किं कुर्महे स्व आत्मेव प्रियः कुलपतेरयम् । तद्भयादेव परुषं न वक्तुमिह शक्यते ॥६४|| तापसास्तेऽन्यदा नाथे प्ररूढप्रौढमत्सराः । गत्वा कुलपतेः पार्श्वे सोपालम्भमदोऽवदन् ॥६५॥ आश्रमे श्रमणः कोऽयमानीतो निर्ममस्त्वया । उटजस्यापि नाशोऽभूद्यदस्मिन्निह तस्थुषि ? ॥६६॥ अकृतज्ञ उदासीनो निर्दाक्षिण्योऽलसश्च सः । गोभ्योऽपि रक्षति न यः खाद्यमानं स्वमाश्रयम् ॥६७|| मुनिमन्योऽथवा नैष गा रक्षति समत्वभृत् । गुरुदेवार्चकास्तत्किं वयं न मुनयो मुने !? ॥६८॥ पाततः कुलपतिरगादुपनाथं ददर्श च । कृत्तपक्षं खगमिव छदिर्वर्जितमाश्रमम् ॥६९।। निर्मत्सराः सत्यगिरस्तापसा इति चिन्तयन् । स नाथमूचे किं तात ! बातोऽयं नोटजस्त्वया ? ॥७०|| त्वत्पित्रा रक्षिताः सर्वे यावज्जीवं किलाऽऽश्रमाः । दुष्टशासनरूपं हि तवापि व्रतमर्हति ॥७१।। आत्मानमिव रक्षन्ति स्वनीडं नीडजा अपि । विवेकिना त्वया हन्त किमाश्रम उपेक्षितः ? ॥७२।। स्वविवेकोचितां शिक्षा स दत्त्वा जीर्णतापसः । स्वमाश्रमं ययौ भूयः स्मरन् सिद्धार्थसौहृदम् ॥७३।। पादध्यौ चैवं विभुरेषामप्रीतिर्मन्निबन्धना । तदत्र स्थातुमुचितं न मे सर्वहितैषिणः ॥७४|| एवं च चिन्तयन स्वामी वैराग्यमधिकं दधत । अभिग्रहानिमान पञ्च जग्राह करुणानिधिः ॥७५|| नैवाऽप्रीतिमतो गेहे वसनीयं कदाचन । स्थातव्यं च शरीरेण कायोत्सर्गजुषा सदा ॥७६।। स्थेयं मौनेन च प्रायो भोक्तव्यं पाणिभाजने । गृहस्थस्य च विनयो न कार्य इति पञ्च ते ॥७७||
अभिग्रहान् गृहीत्वाऽमूनर्धमासादनन्तरम् । ग्रामं नाम्नाऽस्थिकग्रामं ययौ प्रावृष्यपि प्रभुः ॥७८॥ पातत्र चैकस्य यक्षस्य शूलपाणेनिकेतने । अधिवस्तुं जगन्नाथो ग्रामीणानन्वजिज्ञपत् ॥७९॥ ऊचुर्गाम्या न यक्षोऽयं वस्तुं दत्तेऽत्र कस्यचित् । यक्षस्याऽमुष्य हि कथा महती सा निशम्यताम् ॥८०॥
१. अङ्गीकृत्य । २. यन्त्रधारा० खं. १-२ । स्वच्छधारा० खं. ३-४ । स्वस्थधारा० नूतन मु० । ३. पथिकेष्विव खं. ४ । ४.०माहात्म्याद्विशोषिततृणे खं. १ । ५. स्तम्भवन्निश्चले । ६. स्वमाश्रमम् खं. १-२-४, मु. । ७. छदिवर्जित मु. । आच्छादनविहीनम् । ८. पक्षिणः । ९. दधन् खं. ३-४ ।