________________
तृतीयः सर्गः ]
श्रीत्रिषष्टिशलाकापुरुषचरितम् ।
तदा चाऽचिन्तयच्छक्रः किं स्वामी प्रथमेऽहनि । विदधातीत्यथाऽपश्यत्तं गोपं हन्तुमुद्यतम् ॥२५॥ स्तम्भयित्वाऽथ तं शक्रस्तत्रैत्यैवमतर्जयत् । किं नाऽमुं वेत्सि रे पाप ! सिद्धार्थनृपनन्दनम् ? ||२६|| [[ततः प्रदक्षिणीकृत्य त्रिर्मूर्ध्ना प्रणिपत्य च । इति विज्ञपयाञ्चक्रे प्रभुः प्राचीनवर्हिर्षा ||२७|| भविष्यति द्वादशाब्दान्युपसर्गपरम्परा । तां निषेधितुमिच्छामि भूत्वाऽहं पारिपार्श्विकः ॥२८॥ समाधिं पारयित्वेन्द्रं भगवानूचिवानिति । नापेक्षांचक्रिरेऽर्हन्तः परसाहायकं क्वचित् ॥२९॥ नैतद् भूतं भवति वा भविष्यति च जातुचित् । यदर्हन्तोऽन्यसाहाय्यादर्जयन्ति हि केवलम् ||३०|| केवलं केवलज्ञानं प्राप्नुवन्ति स्ववीर्यतः । स्ववीर्येणैव गच्छन्ति जिनेन्द्राः परमं पदम् ||३१|| बालेनै तपसोत्पन्नं व्यन्तरेषु तदाऽमरम् । नाथस्य मातृष्वस्रीयं सिद्धार्थं मेघवाऽऽदित् ॥३२॥ विदधात्युपसर्गं यः स्वामिनो मारणान्तिकम् । प्रतिषेध्यः स भवता स्वामिनः पार्श्ववर्तिना ||३३|| [[इत्युक्त्वाऽगाद्धरिस्तस्थौ सिद्धार्थः प्रतिपद्य तत् । स्वामी षष्ठपारणाय कोल्लाकेऽगान्निवेशने ||३४|| तत्र द्विजातेर्बहुलाभिधस्य सदने प्रभुः । चक्रे सिताज्यमिश्रेण परमान्नेन पारणम् ||३५|| वसुधाराप्रभृतीनि द्विजातेस्तस्य सद्मनि । पञ्च दिव्यान्याविरासन् कृतानि दिविषद्गणैः ||३६|| [[ततो जगद्गुरुः शीतलेश्यः शीतमयूखवत् । तपस्तेजोदुरालोकोऽधिपतिस्तेजसामिव ||३७|| शौण्डीर्यवान् गज इव सुमेरुरिव निश्चलः । सर्वस्पर्शसहिष्णुश्च यथैव हि वसुन्धरा ||३८|| अम्भोधिरिव गम्भीरो मृगेन्द्र इव निर्भयः । मिथ्यादृशां दुरालोकः सुहुतो हव्यवाडिव ॥३९॥ खैङ्गिशृङ्गमिवैकाकी जातस्थामा महोक्षवत् । गुप्तेन्द्रियः कूर्म इवाऽहिरिवैकान्तदत्तदृक् ||४०|| निरञ्जनः शङ्ख इव जातरूपः सुवर्णवत् । विप्रमुक्तः खग इव जीव इवाऽस्खलद्गतिः ॥४१॥ भारण्ड इवाऽप्रमत्तो व्योमेव च निराश्रयः । अम्भोजिनीदलमिवोपलेपपरिवर्जितः ॥४२॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहामुत्र सुखे दुःखे भवे मोक्षे समाशयः ||४३|| निष्कारणैककारुण्यपरायणमनस्तया । मज्जद्भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् ॥४४॥ प्रभुः प्रभञ्जन इवाऽप्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्यां विजहार वसुन्धराम् ॥४५॥
॥ नवभिः कुलकम् ॥
[[दीक्षाक्षणे च यच्चक्रे विभोर्देवैर्विलेपनम् । भृङ्गास्तत्सौरभाकृष्टास्तमागत्योपदुद्रुवुः ॥४६॥ गन्धयुक्तिमयाचन्त ग्रामीणतरुणाः प्रभुम् । अङ्गसङ्गं तरुण्यस्तु स्मरज्वरभरौषधम् ॥४७॥ दीक्षादिनात् प्रभृत्येवं साग्रं मासचतुष्टयम् । उपसर्गाञ्जगन्नाथः सेहे गिरिरिव स्थिरः ॥४८॥ [अन्यदा विहरन् स्वामी मोराके सन्निवेशने । ययौ दुइज्जन्तकाख्ये तापसव्रातसंकुले ॥४९॥ पितृमित्रं कुलपतिस्तत्र नाथमुपा ( प ) स्थितः । पूर्वाभ्यासात् स्वामिनाऽपि तस्मिन् बाहुः प्रसारितः ॥५०॥ प्रार्थितः कुलपतिना तत्रैकामवसन्निशाम् । प्रतिमयैकरात्रिक्या श्रीमान् सिद्धार्थनन्दनः || ५१||
२१
१. इन्द्रेण । २. ० पार्श्वकः मु. । ३. अज्ञानतपः प्रभावात् । ४. प्रभोर्मातुः स्वसुः पुत्रम् । ५. सिद्धार्थमथ चा० खं. १-२ । ६. मरणा० खं. ३ | मारणात्मकम् मु. । ७. कोल्लाके सन्निवे० खं. ३ । ८. सितादि० मु. । सिता - शर्करा । ९. चन्द्रवत् । १०. सुहूतो मु. । ११. अग्निः । १२. 'गेंडो' इति भाषायाम् । १३. भासण्ड० खं. १-२-४ । १४. स्त्रीषु । १५. ०काख्यतापस० नूतने मु.