________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व ॥ अथ तृतीयः सर्गः ॥ पार्ततश्च त्रिजगन्नाथः सोदर्यं नन्दिवर्धनम् । आपप्रच्छेऽन्यतो गन्तुं ज्ञातवंश्यान् परानपि ॥१॥
चारित्ररथमारूढं विहारप्रस्थितं प्रभुम् । वृद्धः पितृसुहृद्विप्रः सोमो नत्वेत्यभाषत ॥२॥ स्वामिन् ! संवत्सरं दानमदाः स्वान्यानपेक्षया । अदरिद्रं जगज्जज्ञे विना मां मन्दभाग्यकम् ॥३॥ अहं हि जन्मतो नाथ ! महादारिद्रयविद्रुतः । परान् प्रार्थयितुं ग्रामाद् ग्रामं भ्राम्याम्यहनिशम् ||४|| सहे निर्भर्त्सनं क्वापि ग्रीवायां ग्रहणं क्वचित् । क्वचिदप्युत्तरादानं मुखमोटनकं क्वचित् ॥५॥ धनाशया तथाप्युच्चैर्बहिर्धमत एव मे । अजानतो वात्सरिकं त्वद्दानं निष्फलं गतम् ॥६॥ संप्रत्यपि कृपां कुर्वन् जगन्नाथ ! प्रयच्छ मे । निर्भय॑ प्रेषितः पत्या स्वामिन्नस्मि त्वदन्तिके ||७|| स्वाम्यप्युवाच कारुण्यात्त्यक्तसङ्गोऽस्मि संप्रति । तथाप्यंसस्थितस्याऽस्य वाससोऽर्धं गृहाण भोः ! ॥८॥ सोऽपि वासोऽर्धमादाय हृष्टो निजगृहं ययौ । दर्शाबन्धकृते तुन्नवायस्याऽदर्शयच्च तत् ॥९॥ त्वया क्वेदं प्राप्तमिति तुन्नवायेन भाषितः । शशंस श्रीमहावीरादवाप्तमिति स द्विजः ॥१०॥ बभाषे तुन्नवायस्तं द्वितीयमपि वाससः । अस्याऽर्धमानय मुनेस्तस्याऽनुपदमभ्यट ॥११॥ मुनेः पर्यटतस्तस्य लगित्वा कण्टकादिषु । तत्पतिष्यति वासोऽधं सोऽनीहो न ग्रहीष्यति ॥१२॥ तदादायाऽत्राऽऽनयेस्त्वं योजयित्वा दले उभे । अहं पूर्णीकरिष्यामि शुक्लपक्ष इवोडुपम् ॥१३॥ दीनारलक्षं मूल्येऽस्य भविष्यति विभज्य तत् । अर्धमधु ग्रहीष्यावो भ्रातरौ सोदराविव ॥१४|| पाआमेत्युक्त्वा प्रभुमगात् स द्विजः प्रभुरप्यथ । ईर्यासमितिमान् सायं कूर्मारग्राममासदत् ॥१५॥
नासाग्रन्यस्तनयनः प्रलम्बितभुजद्वयः । प्रभुः प्रतिमया तत्र तस्थौ स्थाणुरिव स्थिरः ॥१६॥ पातदा च गोपः कोऽप्येको वाहयित्वा दिनं वृषान् । ग्रामसीमन्युपस्वामि प्राप्त एवमचिन्तयत् ॥१७||
अत्रैव मे चरन्त्वेते वृषभा ग्रामसीमनि । अहं करिष्ये ग्रामान्तर्गत्वा दोहं पुनर्गवाम् ॥१८॥ ध्यात्वैवं सोऽविशद् ग्रामं चरन्तस्तद्वेषाः पुनः । अटवीं विविशुर्गोपं विना तिष्ठन्ति ते न हि ॥१९॥ स ग्रामाच्चागतो गोपो मम क्व वृषभा ? इति । पप्रच्छ स्वामिनं स्वाम्यप्यवोचन्न हि किञ्चन ॥२०॥ तूष्णीके तु प्रभौ नैष किञ्चिद्वेत्तीति चिन्तयन् । उक्ष्णो मृगयमाणः स्वान् गोपोऽतीयाय तां निशाम् ॥२१॥ भ्रान्त्वा तेऽपि बलीवर्दाः पुनरेयुरुपप्रभुं । निषद्य तस्थू रोमन्थायमानाः स्वस्थचेतसः ॥२२॥ भ्रान्त्वा सोऽप्यागतो गोपो वृषान् दृष्ट्वेत्यचिन्तयत् । प्रभाते नेतुकामेन नूनं गावोऽमुना हृताः ॥२३॥
एवं विचिन्त्य रभसात् समुत्पाट्य च दामनीम् । प्रभुं हन्तुमधाविष्ट सकोपो गोपपांसनः ॥२४|| १. इतश्च खं. ४ । २. संवत्सरदान० मु. । ३. स्व-परभेदमनपेक्ष्य । ४. विश्रुतः खं. १ । ५. भ्रमाम्य० खं. १ । ६. कण्ठे गृहीत्वा कुत्रापि निष्कासितोऽहम् । ७. ०दुत्तरदानं खं. १-२ । उत्तरमपि क्वचिन्न प्राप्यते स्म । ८. मुखं विकृत्य क्वापि तिरस्कृतोऽहम् । ९. तदा० मु. । १०. वस्त्रस्य । ११. 'ओटवा माटे' इति भाषायाम् । १२. तन्तुवायस्य । १३. पदमुद्यतः खं. ४ । १४. निरीहः । १५. ग्रहीष्यामो खं. ३-४ । १६. कार० खं. १-२ । १७. कायोत्सर्गध्याने । १८. दोहनम् । १९. ग्रामात्त्वागते खं. ३, मु. । २०. मूके । २१. किञ्चिद् वक्तीति खं. १-२। २२. बलीवर्दान् । २३. अतिचक्राम । २४. प्रभुम् खं. १-२-३ । २५. 'वागोळतां' इति भाषायाम् । २६. रभसा मु. । २७. दामिनीम् खं. ४ । बन्धनरज्जुम् । २८. अधमो गोपः ।