________________
द्वितीयः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । कृष्णेथूणां मिथः पत्राशलेषसांराविणैः सदा । पथिकानाह्वयदिव तदुद्यानं विवेश सः ॥१९५।।
|| त्रिभिर्विशेषकम् ॥ पाशिबिकायाः समुत्तीर्य भूषणान्यत्यजत् प्रभुः । देवदूष्यं देवराजः स्कन्धे च निदधे प्रभोः ॥१९६॥ मुष्टिभिः पञ्चभिः केशानुद्दधे त्रिजगद्गुरुः । प्रतीष्य दूष्ये तान् शक्रश्चिक्षेप क्षीरनीरधौ ॥१९७।। तेनाऽऽगत्य निषिद्धेऽथ तुमुले त्रिजगत्प्रभुः । कृत्वा सिद्धनमस्कारं चारित्रं प्रत्यपद्यत ॥१९८।। वर्षत्रिंशति जन्मतोऽथ समतीतायां सहे मासि च
श्यामायां दशमीतिथौ हिमकरे हस्तोत्तरासु स्थिते । यामेऽश्चरमे तु षष्ठतपसः साक्षात्रिलोक्यां प्रभो
श्चारित्रेण समं तदा समभवज्ज्ञानं मनःपर्ययम् ॥१९९।। ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि
श्रीमहावीरजन्मप्रव्रज्यावर्णनो नाम द्वितीयः सर्गः ॥
Kvk
१. पर्णानां परस्परं सम्पर्कजन्यकोलाहलैः । २. प्रतीक्ष्य खं. २-४ मु. । ३. मार्गशीर्षे । ४. चन्द्रे ।