________________
१४१
दशमः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । इतश्च वैभारगिरौ श्रीवीरः समवासरत् । विदाञ्चकार तं सद्यो धन्यो धर्मसुहृद्गिरा ॥१४५।। दत्तदानः सदारः सोऽप्यारुह्य शिबिकां ततः । भवभीतो महावीरचरणौ शरणं ययौ ॥१४६।। सदारः सोऽग्रहीद्दीक्षां ततो भगवदन्तिके । तच्छ्रुत्वा शालिभद्रोऽपि जितंमन्यः प्रतत्वरे ॥१४७|| सोऽन्वीयमानस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीरपादमूलेऽग्रहीद् व्रतम् ॥१४८।। ततः सपरिवारोऽपि स्वामी सिद्धार्थनन्दनः । विहरन्नन्यतोऽगच्छत् सयूथ इव हस्तिराट् ॥१४९।। धन्यश्च शालिभद्रश्च तावभूतां बहुश्रुतौ । महत्तपश्च तेपाते खड्गधारासहोदरम् ॥१५०।। पक्षान्मासाद् द्विमासात् त्रिमास्या मासचतुष्टयात् । शरीरनिरपेक्षौ तौ चक्रतुः पारणं मनी ॥१५१|| तपसा समजायेतां निर्मासरुधिराङ्गकौ । चर्मभस्त्रोपमौ धन्य-शालिभद्रमहामुनी ॥१५२।। अन्येद्युः श्रीमहावीरस्वामिना सहितौ मुनी । आजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥१५३।। ततः समवसरणस्थितं नन्तुं जगत्पतिम् । श्रद्धातिशयोगेनाऽच्छिन्नमीयुर्जना: पुरात् ॥१५४|| मासंपारणके धन्य-शालिभद्रावुभावपि । काले विहर्तुं भिक्षार्थं भगवन्तं प्रणेमतुः ॥१५५।। मातृपार्थात् पारणं तेऽद्येत्युक्तः स्वामिना ततः । इच्छामीति भणन् शालिभद्रो धन्ययुतो ययौ ॥१५६।। गत्वा भद्रागृहद्वारि तावुभावपि तस्थतुः । तप:क्षामतया तौ च न केनाप्युपलक्षितौ ॥१५७॥ श्रीवीरं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासीदुत्सुका न तौ ॥१५८।। क्षणमेकमवस्थाय तत्र तौ जग्मतुस्ततः । महर्षी नगरद्वारप्रतोल्याऽथ निरीयतुः ॥१५९॥ तदाऽऽयान्ती पुरे तस्मिन् विक्रेतुं दधि-सर्पिषी । शालिभद्रस्य प्राग्जन्ममाता धन्याऽभवत् पुरः ॥१६०।। शालिभद्रं च सा प्रेक्ष्य संजातप्रस्नवस्तनी । वन्दित्वा चरणौ भक्त्या द्वाभ्यामपि ददौ दधि ॥१६१।। श्रीवीरस्याऽन्तिके गत्वा तदालोच्य कृताञ्जलिः । शालिभद्रोऽवदत् स्वामिन् ! मातृतः पारणं कथम् ? ॥१६२।। सर्वज्ञोऽप्याचचक्षेऽथ शालिभद्रमहामुनेः । प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ॥१६३॥ पाकृत्वा पारणकं दध्नाऽऽपृच्छ्य च स्वामिनं ततः । वैभारादि ययौ शालिभद्रो धन्यसमन्वितः ॥१६४|| शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्राऽनशनमाश्रयत् ॥१६५।। पातदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिके ॥१६६।। ततो भद्राऽवदद्धन्य-शालिभद्रौ क्व तौ मुनी ? । भिक्षार्थं नाऽऽगतौ कस्मादस्मद्वेश्म ? जगत्पते ! ॥१६७|| सर्वज्ञोऽपि बभाषे तौ त्वद्वेश्मनि गतौ मुनी । ज्ञातौ न तु भवत्येहाऽऽगमनव्यग्रचित्तया ॥१६८।। प्राग्जन्ममाता त्वत्सूनोर्धन्या यान्ती पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ ॥१६९।। उभावपि महासत्त्वौ सत्वरौ भवमुज्झितुम् । वैभारपर्वते गत्वाऽनशनं तौ प्रचक्रतुः ॥१७०।। पाश्रेणिकेन समं भद्रा वैभारादि ययौ ततः । तथास्थितावपश्यच्च तावश्मघटिताविव ॥१७१।। तत्कष्टमथ पश्यन्ती स्मरन्ती तत्सुखानि च । साऽरोदीद् रोदयन्तीव वैभारादि प्रतिस्वनैः ॥१७२।। आयातोऽपि गृहं वत्स ! मया तु स्वल्पभाग्यया । न ज्ञातोऽसि प्रमादेनाऽप्रसादं मा कृथा मयि ॥१७३।।
१. ०चरणं खं. १-३ । २. आत्मानं (धन्येन) जितं मन्यते सः । ३. गृहपुरं खं. १-३ । ४. ०क्षपणके मु. । ५. ०प्रस्रव० खं. २-४, मु., नू. मु. । ६. ०जन्मकम् खं. ४ । अन्यजन्मजं पूर्वजन्मसम्बन्धि अन्यमपि वृत्तान्तमाचचक्षे भगवान् । ७. मयका मु., नू. मु. ।