________________
१४२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व यद्यपि त्यक्तवान्नस्त्वं तथाऽपि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासीन्मनोरथः ॥१७४॥ आरम्भेणाऽमुना पुत्र ! शरीरत्यागहेतुना । मनोरथं तमपि मे भक्तमस्युद्यतोऽधुना ॥१७५।। प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किं त्वेतत्कर्कशतरं शिलातलमितो भव ॥१७६।। अथोचे श्रेणिको हर्षस्थाने किं नाम रोदिषि ? । ईदृग् यस्याः सुतः स्त्रीषु सैका त्वं पुत्रवत्यसि ॥१७७।। तत्त्वज्ञोऽयं महासत्त्वस्त्यक्त्वा तृणमिव श्रियम् । प्रपेदे स्वामिनः पादान् साक्षादिव परं पदम् ॥१७८॥ असौ जगत्स्वामिशिष्यानुरूपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावतः ? ॥१७९|| भद्रैवं बोधिता राज्ञा वन्दित्वा तौ महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ॥१८०।। उभौ तौ मुनीन्द्रौ प्रपन्नावसानौ ।
विमानेऽथ सर्वार्थसिद्धाभिधाने ।। अभूतां प्रभूतप्रमोदाब्धिमग्नौ ।
त्रयस्त्रिंशदब्ध्यायुषौ देववौँ ॥१८१।। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि दशार्णभद्र-शालिभद्र-धन्यक
चरितवर्णनो नाम दशमः सर्गः ॥
Kvk
१. एतत् शिलातलं कर्कशतरं, अतस्त्वं इतो भव-शिलां त्यक्त्वाऽन्यत्र तिष्ठेत्याशयः । ०मिवाभवम् मु. ।