________________
एकादशः सर्गः]
१४३
श्रीत्रिषष्टिशलाकापुरुषचरितम् । ॥ अथ एकादशः सर्गः ॥
इतश्च भगवान् वीरो लोकानुग्रहकाम्यया । व्यहार्षीन्नगर-ग्रामा-ऽऽकर-द्रोणमुखादिषु ॥१॥ इतश्च राजगृहस्य वैभारगिरिकन्दरे । चोरो लोहखुराख्योऽभूद् रौद्रो रस इवाङ्गवान् ॥२॥ स तु राजगृहे नित्यं पौराणामुत्सवादिषु । लब्ध्वा छिद्राणि विदधे पिशाचवदुपद्रवम् ॥३|| आददानस्ततो द्रव्यं भुञ्जानश्च परस्त्रियः । भाण्डागारं निशान्तं वा निजं मेने स तत्पुरम् ॥४॥ चौर्यमेवाऽभवत्तस्य प्रीत्यै वृत्तिर्न चापरा । अपास्य क्रव्यं क्रव्यादा भक्ष्यैस्तृप्यन्ति नाऽपरः ॥५॥
तस्यानरूपो रूपेण चेष्टया च सतोऽभवत । भार्यायां रोहिणीनाम्न्यां रौहिणेयोऽभिधानतः ॥६॥ पास्वमृत्युसमये प्राप्ते पित्राऽऽहूयेत्यभाषि सः । यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥७॥
अवश्यमेव कर्तव्यमादिष्टं भवतां मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच सः ॥८॥ प्रहृष्टो वचसा तेन चौरो लोहखुरस्ततः । पाणिना संस्पृशन् पुत्रमभाषिष्टेति निष्ठुरम् ॥९॥ योऽसौ समवसरणे स्थितः सुरविनिर्मिते । विधत्ते देशनां वीरो मा श्रौषीस्तस्य भाषितम् ॥१०॥ अन्यत्तु स्वेच्छया वत्स ! कुर्यास्त्वमनियन्त्रितः । उपदिश्येति पञ्चत्वं प्राप लोहखुरस्ततः ॥११॥ मृतकार्यं पितुः कृत्वा रौहिणेयो निरन्तरम् । चकार चौरिकां लोहखुरोऽपर इवोद्गतः ॥१२।। पालयन् पितुरादेशं जीवितव्यमिवाऽऽत्मनः । स्वदासेरमिवाऽमुष्णात् स राजगृहपत्तनम् ॥१३|| पातदा च नगरनामाकरेषु विहरन् क्रमात् । चतुर्दशमहासाधुसहस्रपरिवारितः ॥१४|| सुरैः सञ्चार्यमाणेषु स्वर्णाम्भोजेषु चारुषु । न्यस्यन् पदानि तत्राऽऽगाद् वीरश्चरमतीर्थकृत् ॥१५।। (युग्मम्) वैमानिकैयॊतिषिकैरसुरैय॑न्तरैरपि । सुरैः समवसरणं चक्रे जिनपतेस्ततः ॥१६॥ आयोजनविसर्पिण्या सर्वभाषानुयातया । भारत्या भगवान् वीरः प्रारेभे धर्मदेशनाम् ॥१७॥ पातदानीं रौहिणेयोऽपि गच्छन् राजगृहं प्रति । मार्गान्तराले समवसरणाभ्यर्णमाययौ ॥१८॥
एवं स चिन्तयामास पथाऽनेन व्रजामि चेत् । शृणोमि वीरवचनं तदाऽऽज्ञा भज्यते पितुः ॥१९॥ न चाऽन्यो विद्यते पन्था भवत्वेवं विमृश्य सः । कर्णौ पिधाय पाणिभ्यां द्रुतं राजगृहं ययौ ॥२०॥ तस्यैवमन्वहमपि यातायातकतोऽन्यदा । उपसमवसरणं पादेऽभज्यत कण्टकः ॥२१॥ औत्सुक्यगमनाद् गाढमग्नं पादे स कण्टकम् । अनुद्धृत्य समुद्धर्तुं न शशाक क्रमाक्रमम् ॥२२॥ नास्त्युपायोऽपरः कोऽपीत्याकृष्य श्रवणात् करम् । कर्षन् कण्टकमश्रौषीदिति विश्वगुरोर्गिरम् ।।२३।। "महीतलास्पशिपादा निर्निमेषविलोचनाः । अम्लानमाल्या नि:स्वेदनीरजोऽङ्गाः सुरा इति" ॥२४|| बह तमिदं धिग्धिगित्याशदधतकण्टकः । पिधाय पाणिना कर्णं (ो ?) तथैवाऽपससार सः ॥२५॥ पाअथाऽन्वहं मुष्यमाणे पत्तने तेन दस्युना । उपेत्य श्रेणिकं श्रेष्ठिश्रेष्ठा व्यज्ञपयन्निति ॥२६।। त्वयि शासति देवाऽन्यन्न भयं द्रविणं तु नः । आकृष्य गृह्यते चौरेरदृष्टैश्चेटकैरिव ॥२७॥ बन्धूनामिव तेषां तु गृहीतः पीडया ततः । सकोपाटोपमित्यूचे नृपतिर्दण्डपाशिकम् ॥२८॥
१. गृहम् । २. मांसं राक्षसाः । ३. स्वस्य दास्याः सुतमिव । ४. उग्रव्रतमहा० खं. ३-४, नू. मु. । ५. ०भग्नं नू. मु. विना। ६. पदात् पदं समुद्धर्तु-उत्थापयितुं न शशाक । ७. ०ण्ड० खं. १ ।।