________________
१४४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[दशमं पर्व किं चौरीभूय दायादीभूय वा मम वेतनम् । गृह्णासि ? चौरैर्गृह्यन्ते यदेते त्वदुपेक्षितैः ॥२९॥ पासोऽप्यूचे देव ! कोऽप्येष चौर: पौरान् विलुण्टति । रौहिणेयाह्वयो धर्तुं दृष्टोऽपि न हि शक्यते ॥३०॥ विधुदुत्क्षिप्तकरणेनोत्प्लुत्य स प्लवङ्गवत् । गेहाद् गेहं ततो वप्रमुल्लङ्घयति हेलया ॥३१॥ मार्गेण यामस्तन्मार्गं यावत्तावत् स नेक्ष्यते । त्यक्तो ह्येकक्रमेणापि शतेन त्यज्यते क्रमैः ॥३२॥ न तं हन्तुं न वा धर्तुमहं शक्नोमि तस्करम् । गृह्णातु तदिमां देवो दाण्डपाशिकतां निजाम् ॥३३।। पानृपेणोल्लासितैकभ्रूसंज्ञया भाषितस्ततः । कुमारोऽभयकुमारस्तमूचे दाण्डपाशिकम् ॥३४|| चतुरङ्गचमूं सज्जीकृत्य मुञ्च बहि: पुरात् । यदाऽन्तः प्रविशेच्चौर: पत्तनं वेष्टयेस्तदा ॥३५।। अन्तश्च त्रासितो विद्युदुत्क्षिप्तकरणेन सः । पतिष्यति बहि: सैन्ये वागुरायां कुरङ्गवत् ॥३६।। प्रतिभभिरिवाऽऽनीतो निजपादैस्ततश्च सः। ग्रहीतव्यो महादस्यरप्रमत्तैः पदातिभिः ॥३७॥ पातथेत्यादेशमादाय निर्ययौ दाण्डपाशिकः । तथैव च चमूं सज्जां प्रच्छन्नं निर्ममे सुधीः ॥३८॥ तद्दिने रौहिणेयोऽपि ग्रामान्तरसमागमात् । अजानानः पुरीं रुद्धां वारी गज इवाऽविशत् ॥३९॥ तैरुपायैस्ततो धृत्वा बद्ध्वा च स मलिम्लुचः । आनीय नृपतेर्दाण्डपाशिकेन समर्पितः ॥४०॥ यथा न्याय्यं सतां त्राणमसतां निग्रहस्तथा । निगृह्यतामसौ तस्मादित्यादिक्षन्महीपतिः ॥४१।।
अलोप्नः प्राप्त इत्येष न हि निग्रहमर्हति । विचार्य निग्रहीतव्य इत्युवाचाऽभयस्ततः ॥४२॥ पाअथ पप्रच्छ तं राजा क्वत्यः कीदृशजीविकः । कुतो हेतोरिहाऽऽयातो रौहिणेयः स चाऽसि किम् ? ॥४३॥
स्वनामशङ्कितः सोऽपि प्रत्युवाचेति भूपतिम् । शालिग्रामे दुर्गचण्डाभिधानोऽहं कुटुम्बिकः ॥४४|| प्रयोजनवशेनेहाऽऽयातः सञ्जातकौतुकात् । एकदेवकुले रात्रि महतीमस्मि च स्थितः ॥४५॥ स्वधाम गच्छन्नारक्षराक्षिप्तो राक्षसैरिव । अलङ्घयमहं वप्रं प्राणभीमहती हि भीः ॥४६॥ मध्यारक्षविनिर्यातो बाह्यारक्षगणेष्वहम् । कैवर्तहस्तविञस्तो जाले मत्स्य इवाऽपतम् ॥४७|| ततो निरपराधोऽपि बद्ध्वा चौर इवाऽधुना । अहमेभिरिहाऽऽनीतो नीतिसार ! विचारय ॥४८|| पाततस्तं भूपतिर्गुप्तौ प्रेषयामास तत्क्षणात् । तत्प्रवृत्तिज्ञानहेतोस्तत्र ग्रामे च पूरुषम् ॥४९॥ सोऽग्रेऽपि ग्राहितो ग्रामः संकेतं तेन दस्युना । चौराणामपि केषाञ्चिच्चित्रमायतिचिन्तनम् ॥५०॥ तत्स्वरूपं राजपुंसा पृष्टो ग्रामोऽब्रवीदिदम् । दुर्गचण्डोऽत्र वास्तव्यः परं ग्रामान्तरं गतः ॥५१॥ तंत्रार्थे तेन विज्ञप्ते दध्यौ श्रेणिक सूरिदम् । दम्भस्य सुकृतस्याऽहो ! ब्रह्माऽप्यन्तं न गच्छति ॥५२॥ पाअभयोऽसज्जयदथ प्रासादं सप्तभूमिकम् । महार्घरत्नखचितं विमानमिव नाकिनाम् ॥५३।। श्रियाऽप्सरायमाणाभी रमणीभिरलङ्कतः । दिवोऽमरावतीखण्डमिव भ्रष्टमतर्कि सः ॥५४|| गन्धर्ववर्गप्रारब्धसङ्गीतकमहोत्सवः । सोऽधादकस्मादुद्भूतगन्धर्वनगरश्रियम् ॥५५।। ततोऽभयो मद्यपानमूढं चौरं विधाय तम् । परिधाप्य देवदूष्ये अधितल्पमशाययत् ॥५६।
१. विद्युदिव-विद्युद्वेगेन उत्क्षिप्तकरणं ऊर्ध्वपतनं तेन । २. अमात्यो० मु. । ३. जाले । ४. साक्षिभिः । प्रतिभूति० खं. १ । ५. वारी-गजबन्धनी । ६.चोरितद्रव्यरहितः । ७. मध्यस्थितरक्षकेभ्यो निर्गतः । ८. ०वित्रस्तो खं. १-३ । ९. ०सारं मु. । १०. कारागारे । ११. कतिपये चौरा अपि भविष्यचिन्तनं प्रथमत एव कुर्वन्ति, तच्चित्रम् । १२. तत्रायातेन मु. । १३. सुष्ठु कृतस्य दम्भस्य । १४. महाय॑० मु., नू. मु. । १५. शय्यायाम् ।