________________
एकादशः सर्गः]
श्रीत्रिषष्टिशलाकापुरुषचरितम् । मदे परिणते यावदुदस्थात्तावदैक्षत । सोऽकस्माद् विस्मयकरीमपूर्वां दिव्यसम्पदम् ॥५७॥ पाअत्राऽन्तरेऽभयादिष्टैनरनारीगणैस्ततः । उदचारि जय जगन्नन्देत्यादिकमङ्गलम् ॥५८।।
अस्मिन्महाविमाने त्वमुत्पन्नस्त्रिदशोऽधुना । अस्माकं स्वामिभूतोऽसि त्वदीयाः किङ्करा वयम् ॥५९|| अप्सरोभिः सहैताभी रमस्व स्वैरमिन्द्रवत् । इत्यादि चतुरं चाटुगर्भमूचे स तैस्ततः ॥६०|| जातः सुरः किमस्मीति दध्यौ यावत् स तस्करः । सङ्गीतकार्थं तावत्तैः प्रदत्तः समहस्तकः ॥६॥ उपेत्य पुंसा केनापि स्वर्णदण्डभृता ततः । सहसा भोः ! किमारब्धमेतदेवमभाष्यत ॥६२।। ततः प्रतिबभाषे तैः प्रतीहार ! निजप्रभोः । प्रदर्शयितुमारब्धं स्वकं विज्ञानकौशलम् ॥६३|| सोऽप्युवाच स्वनाथस्य दर्श्यतां निजकौशलम् । देवलोकसमाचारः किं त्वसौ कार्यतामिति ॥६४|| तैरुक्तं कीदृगाचार इति श्रुत्वा स पूरुषः । साक्षेपमित्यभाषिष्ट किमेतदपि विस्मृतम् ? ॥६५।। य इहोत्पद्यते देवः स स्वे सुकृत-दुष्कृते । आख्याति प्राक्तने स्वर्गभोगाननुभवेत्ततः ॥६६॥ विस्मृतं स्वामिलाभेन सर्वमेतत् प्रसीद नः । देवलोकस्थितिर्देव ! कार्यतामिति तेऽवदन् ॥६७|| स रौहिणेयमित्यूचे निजे हन्त शुभाशुभे । प्राक्तने शंस नः स्वर्गभोगान् भुव ततः परम् ॥६८॥ ततः सोऽचिन्तयद्दस्युः किमेतत् सत्यमीदृशम् ? । मां ज्ञातुमभयेनैष प्रपञ्चो रचितोऽथवा ? ॥६९।। ज्ञेयं कथमिदमिति ध्यायता तेन संस्मृतम् । कण्टकोद्धरणकालाकर्णितं भगवद्वचः ॥७०।। देवस्वरूपं श्रीवीराख्यातं चेत् संवदिष्यति । तत् सत्यं कथयिष्यामि करिष्याम्यन्यथोत्तरम् ।।७१।। इति बुद्ध्या स तानीक्षांचक्रे क्षितितलस्पृशः । प्रस्वेदमलिनान्म्लानमाल्यान्निमिषदीक्षणान् ॥७२॥ तत्सर्वं कपटं ज्ञात्वाऽचिन्तयद्दस्युरुत्तरम् । तेनोचे कथ्यतां देवलोकः सर्वोऽयमुत्सुकः ॥७३॥ पारौहिणेयस्ततोऽवादीन्मया पूर्वत्र जन्मनि । अदीयत सुपात्रेभ्यो दानं चैत्यानि चक्रिरे ॥७४|| प्रत्यष्ठाप्यन्त बिम्बानि पूजितान्यष्टधाऽर्चया । विहितास्तीर्थयात्राश्च गुरवः पर्युपासिताः ॥७५॥ इत्यादि सदनुष्ठानं मया कृतमिति ब्रुवन् । ऊचे दण्डभृता शंस दुश्चरित्रमपि स्वकम् ॥७६।। रौहिणेयोऽप्युवाचैवं साधुसंसर्गशालिना । कदाचिदप्याचरितं किञ्चिन्नाऽशोभनं मया ॥७७॥ व्याजहार प्रतीहारो जन्म नैकस्वभावतः । याति तत् कथ्यतां चौर्य-पारदारिकतादिकम् ॥७८।। रौहिणेयोऽभ्यधत्तैवं किमेवंविधचेष्टितः । स्वर्लोकं प्राप्नुयादन्धः किमारोहति पर्वतम् ? ॥७९॥ पागत्वा ततस्तैस्तत्सर्वमभयाय निवेदितम् । अभयेन च विज्ञप्तं श्रेणिकस्य महीपतेः ॥८०॥
एवंविधैरुपायैर्यश्चौरो ज्ञातुं न शक्यते । स चौरोऽपि विमोक्तव्यः शक्या नीतिर्न लवितुम् ॥८१।। इति राजगिराऽमुञ्चद् रौहिणेयमथाऽभयः । वञ्च्यन्ते वञ्चनादक्षैर्दक्षा अपि कदाचन ॥८२।। पाततः सोऽचिन्तयच्चौरो धिगादेशं पितुर्मम । वञ्चितोऽस्मि चिरं येन भगवद्वचनामृतात् ॥८३।। नाऽऽगमिष्यत् प्रभुवचो यदि मे कर्णकोटरम् । तदा विविधमारेणाऽगमिष्यं यमगोचरम् ॥८४|| अनिच्छयाऽपि हि तदा गृहीतं भगवद्वचः । मम जीवातवे जातं भैषज्यमिव रोगिणः ॥८५।।
१. युगपद् हस्ततालः । २. ०र्देवः खं. १-२-३-४ । ३. श्रीवीरात् श्रुतं खं. १, नू. मु. । ४. ०न्निर्मेष० खं. १ । ५. जीवनाय ।