________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं
[ दशमं पर्व
त्यक्त्वाऽर्हद्वचनं हा धिक् ! चौरवाचि रतिर्मया । आम्राण्यपास्य निम्बेषु काकेनेव चिरं कृता ॥८६॥ उपदेशैकदेशोऽपि यदीयः फलतीदृशम् । तस्योपदेश: सामस्त्यात् सेवितः किं करिष्यति ? ॥८७॥ [[एवं विमृश्य मनसा ययौ भगवतोऽन्तिके । प्रणम्य चरणौ भक्त्या रौहिणेयो व्यजिज्ञपत् ॥८८॥ भवाब्धौ प्राणिनां घोरविपन्नक्रकुलाकुले । महापोतायते ते गीरायोजनविसर्पिणी ॥ ८९ ॥ निषिद्धस्त्वद्वचः श्रोतुमनाप्तेनाऽऽप्तमानिना । इयत्कालमहं पित्रा वञ्चितस्त्रिजगद्गुरो ! ॥९०॥ त्रैलोक्यनाथ ! ते धन्याः श्रद्दधानाः पिबन्ति ये । भवद्वचनपीयूषं कर्णाञ्जलिपुटैः सदा ॥९१॥ अहं तु पापोऽशुश्रूषुर्भवतो भगवन् ! वचः । पिधाय कर्णौ हा ! कष्टमिदं स्थानमलङ्घयम् ॥९२॥ एकदाऽनिच्छताऽप्येकं श्रुतं युष्मद्वचो मया । तेन मन्त्राक्षरेणेव रक्षितो राजराक्षसात् ॥९३॥
यथाऽहं मरणात् त्रातस्तथा त्रायस्व नाथ ! माम् ! संसारसागरावर्ते निमज्जन्तं जगत्पते ! ॥९४॥ q[ततस्तत्कृपया स्वामी निर्वाणपददायिनीम् । विशुद्धां विदधे साधु साधुधर्मस्य देशनाम् ॥९५॥ ततः प्रबुद्धः प्रणमन् रौहिणेयोऽब्रवीदिदम् । यतिधर्मस्य योग्योऽस्मि न वेत्यादिश्यतां ? प्रभो ! ॥९६॥ योग्योऽसीति स्वामिनोक्ते ग्रहीष्यामि विभो ! व्रतम् । परं किञ्चिद् वदिष्यामि श्रेणिकेनेत्युवाच सः ॥९७|| q[निर्विकल्पं निर्विशङ्कं स्ववक्तव्यमुदीरय । इत्युक्तः श्रेणिकनृपेणोचे लोहखुरात्मजः ||९८||
३
इह देव ! भवद्भिर्यः श्रुतोऽहं लोकवार्तया । स एष रौहिणेयोऽस्मि भवत्पत्तनमोषकः ॥९९॥ भगवद्वचसैकेन दुर्लङ्घा लङ्घिता मया । प्रज्ञाऽभयकुमारस्य तरण्डेनेव निम्नगा ॥१००॥ अशेषमेतन्मुषितं पत्तनं भवतो मया । नाऽन्वेषणीयः कोऽप्यन्यस्तस्करो राजभास्कर ! ॥१०१॥ कमपि प्रेषय यथा तल्लोत्रं दर्शयाम्यहम् । करिष्ये सफलं जन्म ततः प्रव्रज्यया निजम् ॥१०२॥ [अभयोऽथ समुत्थाय श्रेणिकादेशतः स्वयम् । कौतुकात् पौरलोकश्च सहाऽगात् तेन दस्युना ॥१०३॥ ततो गिरि-णदी-कुञ्ज-श्मशानादिषु तद्धनम् । स्थगितं दर्शयामास चौरः श्रेणिक सूनवे ||१०४|| अभयोऽपि हि यद्यस्य तत्तस्य धनमार्पयत् । नीतिज्ञानामलोभानां मन्त्रिणां नाऽपरा स्थितिः || १०५।। परमार्थं कथयित्वा प्रबोध्य निजमानुषान् । श्रद्धालुर्भगवत्पार्श्वे रौहिणेयः समायौ ॥१०६॥ [[अथ श्रेणिकराजेन कृतनिष्क्रमणोत्सवः । स जग्राह परिव्रज्यां पार्श्वे श्रीवीरपादयोः ॥१०७॥ ततश्चतुर्थादारभ्य षण्मासीं यावदुज्ज्वलम् । विनिर्ममे तपः कर्म कर्मनिर्मूलनाय सः ॥ १०८ ॥ तपोभिः क्रशितः कृत्वा भावसंलेखनां च सः । श्रीवीरमापृच्छ्य गिरौ पादपोपगमं व्यधात् ॥१०९॥ शुभध्यानः स्मरन् पञ्चपरमेष्ठिनमस्क्रियाम् । त्यक्त्वा देहं जगाम द्यां रौहिणेयो महामुनिः ॥११०॥ [[ततोऽपि भगवान् कर्तुं तीर्थकृत्कर्मनिर्जराम् । विजहार वृतो देवैः कोटिसंख्यैर्जघन्यतः ॥ १११ ॥
कानपि श्रावकीचक्रे यतीचक्रे च कानपि । धर्मदेशनया राजामात्यप्रभृतिकान् प्रभुः ॥ ११२ ॥ ||इतश्च श्रेणिको राजा तस्मिन् राजगृहे पुरे । सम्यक्त्वं धारयन् सम्यङ् नीत्या राज्यमपालयत् ॥११३॥
१४६
१. तस्य मु. । २. ०नोक्तो मु., नू. मु. । ३. प्रभो खं. १ । ४. दुर्लङ्घ्या मु., नू. मु. । ५. नावा नदीव । ६. अभयश्च खं. १ । अभयोsपि खं. २, मु., नू. मु.