Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 171
________________ एकादशः सर्गः ] श्रीत्रिषष्टिशलाकापुरुषचरितम् । [[अन्यदोज्जयनीपुर्याश्चण्डप्रद्योतभूपतिः । चलितः सर्वसामग्र्या रोद्धुं राजगृहं पुरम् ॥११४॥ प्रद्योतो बद्धमुकुटाश्चाऽन्ये भूपाश्चतुर्दश । तत्राऽऽयान्तो जनैर्दृष्टाः परमधार्मिका इव ॥११५॥ पाटूपटप्लुतैरश्वैः पाटयन्निव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः ॥ ११६॥ श्रेणिकोऽचिन्तयत् किञ्चित् प्रद्योतोऽत्र समापतन् । क्रूरग्रह इव क्रुद्धः कार्यो हतबलः कथम् ? ॥११७॥ ततोऽभयकुमारस्यौत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा ॥११८॥ यथार्थनामा राजानमभयोऽथ व्यजिज्ञपत् । का चिन्तोज्जयिनीशोऽद्य भवेद् युद्धातिथिर्मम ? ॥ ११९॥ यदि वा बुद्धिसाध्येऽर्थे शस्त्राशस्त्रिकथा वृथा । बुद्धिमेव प्रयोक्ष्ये तद् बुद्धिर्हि जयकामधुक् ॥१२०॥ [[अथ बाह्येऽरिसैन्यानामावासस्थानभूमिषु । लोहसंपुटमध्यस्थान् दीनारान् स न्यचीखनत् ॥१२१॥ प्रद्योतनृपतेः सैन्यैस्ततो राजगृहं पुरम् । पर्यवेष्ट्यत भूगोल: पयोधिसलिलैरिव ॥१२२॥ अथेत्थं प्रेषयामास लेखं प्रद्योतभूपतेः । अभयो गुप्तपुरुषैः परुषेतरभाषिभिः ॥ १२३॥ शिवादेवी - चेल्लणयोर्भेदं नेक्षे मनागपि । तन्मान्योऽसि शिवादेवीसम्बन्धेनापि सर्वदा ॥ १२४॥ तेनाऽवन्तीश ! वच्मि त्वामेकान्तहितवाञ्छया । सर्वे श्रेणिकराजेन भेदितास्तव भूभुजः ॥१२५॥ दीनाराः प्रेषिताः सन्ति तेभ्यस्तान् कर्तुमात्मसात् । ते तानादाय बद्ध्वा त्वामर्पयिष्यन्ति मत्पितुः ॥१२६॥ तदावासेषु दीनारा निखाताः सन्ति तत्कृते । खानयित्वा पश्य को वा दीपे सत्यग्निमीक्षते ? ॥१२७॥ q[विदित्वैवं स भूपस्यैकस्याऽऽवासमचीखनत् । लब्धास्तत्र च दीनारास्तान् दृष्ट्वाऽऽशु पलायत ॥१२८॥ नष्टे तत्र च तत्सैन्यं विलोड्याब्धिमिवाऽखिलम् । हस्त्यश्वाद्याददे सारं मगधेन्द्रः समन्ततः ॥१२९|| नौसारूढेन जीवेन वायुवाजेन वाजिना । ततः प्रद्योतनृपतिः कथञ्चित् स्वां पुरीं ययौ ॥ १३० ॥ नृपा ये बद्धमुकुटा ये चान्येऽपि महारथाः । तेऽपि नेशुः काकनाशं हृतं सैन्यं ह्यनायकम् ॥१३१॥ असंयतलुलत्केशैश्छत्रशून्यैश्च मौलिभिः । राजानमनुयान्तस्तेऽप्यापुरुज्जयिनीं पुरीम् ॥१३२॥ अभयस्यैव मायेयं वयं नेदृशकारिणः । प्रत्यायितः सशपथं तैरथोज्जयनीपतिः ॥ १३३ ॥ [कदाचिदूचेऽवन्तीशो मध्येसभममर्षणः । योऽर्पयत्यभयं बद्ध्वा मम सम्पत्स्यते स किम् ? ॥१३४॥ पतार्कं हस्तमुत्क्षिप्य काप्येका गणिका ततः । व्यजिज्ञपदवन्तीशमलमस्मीह कर्मणि ॥१३५॥ तामादिदेशाऽवन्तीशो यद्येवमनुतिष्ठ तत् । करोम्यर्थादिसाहाय्यं ब्रूहि किं तव संप्रति ? ॥१३६॥ सा च दध्यौ यदभयो नोपायैर्गृह्यतेऽपरैः । धर्मच्छद्म तदादाय साधयामि समीहितम् ॥१३७॥ अयाचत ततश्च द्वे द्वितीयवयसौ स्त्रियौ । ते तदैवाऽऽर्पयद् राजा ददौ द्रव्यं च पुष्कलम् ॥१३८॥ कृतादराः प्रतिदिनमुपास्योपास्य संयती: । बभूवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥१३९॥ [[तास्तिस्रोऽपि ततो जग्मुः श्रेणिकालङ्कृतं पुरम् । जगत्त्रयीं वञ्चयितुं मायाया इव मूर्तयः ॥१४०॥ १४७ १. ०ज्जयिनी ० मु., नू. मु. । २. नरकलोके नारकजीवान् उपद्रवदातारो देवविशेषाः । ३. त्वरितत्वरितमुत्प्लुत्य धावद्भिरश्वैः । ४. गुप्तचरेभ्यः । ५. औत्पत्तिकी इति बुद्धेः प्रकारः । ६. यथार्थं नाम खं. १ । ७. ०ज्जयनी० खं. १ । ८. मधुरभाषिभिः । ९. शिवादेवी - प्रद्योतस्य पट्टराज्ञी, सा च चेल्लणाया ज्येष्ठा भगिनी । १०. दृष्ट्वा स मु., नू. मु. । ११. पलायितः खं. ३-४ विना । १२. नासिकायां जीवं निधाय । १३. वायुवेगेन अश्वेन । १४. काक इव नंष्ट्वा । १५. ०ज्जयनीं खं. १ । १६. हस्त एव पताका । १७. युवत्यौ । १८. साध्वीः । संयताः खं. १-३ ।

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280