Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 110
________________ ८६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व अङ्के पर्यस्तिकां मूनि जटामुकुटमुत्कटम् । स करेण व्यरचयत् पाशर्वे क्रीडंस्तपस्विनाम् ॥३३५।। कलशैः सिषिचुर्वृक्षांस्तापसास्तान्निरीक्ष्य च । सिषेच सोऽपि पयसाऽऽपूर्याऽऽपूर्य निजं करम् ॥३३६।। एवं चाऽऽश्रमजान् वृक्षान् सिञ्चतः प्रतिवासरम् । चक्रुः सेचनक इति नाम तस्य तपस्विनः ॥३३७|| करसक्तोन्नतदन्तो मधुपिङ्गललोचनः । भूमिस्पृक्पुष्करकरः पूर्वासनसमुन्नतः ॥३३८|| उच्चैःकुम्भो लघुग्रीवः क्रमावनतवेणुकः । शुण्डेषदूनलाङ्गलो विंशत्या शोभितो नखैः ॥३३९।। अपरादेशयोर्नीचैरुच्चकैर्गात्रदेशयोः । स सर्वलक्षणैर्व्यक्तः क्रमान्मदमुखोऽभवत् ॥३४०।। (त्रिभिर्विशेषकम्) पातेनाऽन्यदा पयः पातुं नदीतीरे प्रसर्पता । स पिता यूथपो दृष्टः कृत्वा युद्धममार्यत ॥३४१।। स्वयं यूथपतिर्जज्ञे चिन्तयामास चेतसि । अमुष्मिन्नाश्रमे मात्रा छद्मना ह्यस्मि रक्षितः ॥३४२॥ रक्षितेन मयाऽकारि यत्पितुस्तन्ममापि हि । मा कार्षीदाश्रमेऽमुष्मिजातत्रातोऽपरो गजः ॥३४३।। इति संचिन्त्य निःशेषं भङ्क्त्वा तं तापसाश्रमम् । अकृताऽलक्ष्यसंस्थानं स नद्योघ इव स्थलम् ॥३४४|| दास्यते नाऽऽश्रमे सौख्यं दुरात्मेति तपस्विनः । तं गजं श्रेणिकायाऽऽख्यन् राजार्हं सर्वलक्षणैः ॥३४५।। श्रेणिकोऽपि द्रुतं गत्वा तं बद्ध्वा करिकुञ्जरम् । समानयत् कौतुकिनः सेनाङ्गेषु हि भूभुजः ॥३४६।। प्रसह्याऽसह्यस्थामाऽपि स्तम्भेऽबध्यत स द्विपः । किमसाध्यं मनुष्याणामभेद्यमिव पाथसाम् ? ॥३४७|| नि:स्पन्दकरलाङ्गलकर्णतालः क्रुधा च सः । तस्थावालिखित इव त्रिपदीवर्जितोऽपि सन् ॥३४८।। दिष्ट्याऽभदाश्रमक्षेममिति ते प्रीतचेतसः । तापसा एत्य तं नागमालानितमतर्जयन ॥३४९।। लालितः पालितोऽस्माभिः पोषितो वर्धितोऽसि च । स्वस्थानघातको रे ! त्वमा श्रयाश इवाऽभवः ॥३५०।। अस्मत्कवलदुर्मत्तेनाऽऽश्रमोऽभञ्जि यत्त्वया । तत्कर्मणः फलमिदं प्राप्तोऽस्यालानसौहृदम् ॥३५१।। गजोऽपि चिन्तयामास नूनमेभिस्तपस्विभिः । उपायरचनां कृत्वा प्रापितोऽहमिमां दशाम् ॥३५२।। अभाङक्षीन्मङश्वर्थ क्रद्धः स्तम्भं कदलिकाण्डवत । अत्रोटयच्च त्रटिति बन्धनं बिसतन्तवत ॥३५३।। सोऽभ्यरण्यं दधावेऽर्थीऽऽध्मातताम्रारुणाननः । विक्षिपन्नतिदूरेण तापसान्व॑मथूनिव ॥३५४|| पाश्रेणिकोऽपि तमानेतुं हयारूढैः सुतैरगात् । मृगयाप्राप्तमृगवत् परिवेष्टयति स्म च ॥३५५।। प्रलोभनां तर्जनां वा सादिनां स मतङ्गजः । बलवद्व्यन्तरग्रस्त इव मेने न किञ्चन ॥३५६।। नन्दिषेणस्य तु वचो निशम्य तमुदीक्ष्य च । स शान्तोऽभूदवधिना जानन् प्राग्जन्म तत्तथा ॥३५७।। नन्दिषेणोऽपि सपदि कक्षामालम्ब्य तं गजम् । अपरायां दत्तपादोऽध्यारोहन्मुष्टिभिस्त्रिभिः ॥३५८।। नन्दिषेणस्य वचसा दन्तघातादिकाः क्रियाः । स कुर्वन् शिक्षित इवाऽऽलानगोचरतां ययौ ॥३५९।। पढें विश्राणयामास श्रेणिकस्तस्य हस्तिनः । प्रसादपात्रीचक्रे च युवराजमिवाऽथ तम् ॥३६०॥ अपरेऽपि हि कालाद्याः पुत्राः प्रथितविक्रमाः । अभूवन् कुलपत्नीषु श्रेणिकस्य महीपतेः ॥३६१।। पाइतश्च विरहन् भव्यावबोधाय जगद्गुरुः । सुरासुरपरीवारो ययौ राजगृहं पुरम् ॥३६२।। १. 'पलांठी' इति भाषायाम् । २. शुण्डाम् । ३. भूमिं स्पृशन् कर(शुण्डा)कमलः । ४. पूर्वासन्न० खं. ४ । ५. पूर्वासनः सूर्यः । वेणुकं पृष्ठभागः । ६. अपराग्दे० मु., नूतन मु. । ७. ०ष्मिन् जनित्रातो० खं. १-२ । जातमात्र एव यस्त्रातः सः । ८. नद्याः पूरः यथा स्थलं अलक्ष्यं कुरुते तथा । ९. “गात्रयोर्बन्धः" इति खं. ३ टि. । १०. अग्निः । ११. अस्माकं बलदु० मु. । १२. ०मंक्षु स मु., नूतन मु.। १३. दधावे च ध्मात० खं. ४ । १४. मधुपानिव मु. । वमथुः करसीकरः, शुण्डानिर्गतबिन्दुः, "श्रलेष्मा" इति खं. ३ टि. ।

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280