Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 155
________________ नवमः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । १३१ देशनां कुर्वता तेन प्रस्तावादिदमौच्यत । अस्थिचर्मावशिष्टाङ्गाः किडित्किडिसिन्धयः ॥१९८|| ग्लानिभाजो ब्रुवन्तोऽपि जीवसत्त्वेन गामिनः । तपोभिरुग्रैरीक्षा भवन्ति खलु साधवः ॥१९९।। तत्तु श्रुत्वा वैश्रवणस्तस्य स्थौल्यं विभावयन् । स्वस्मिन्नपि विसंवादि वचोऽस्येत्यहसन्मनाक् ॥२००।। इन्द्रभूतिर्मनोज्ञानी ज्ञात्वा तद्भावमब्रवीत् । नाङ्गकाऱ्या प्रमाणं स्यात् किं त्वहो ध्याननिग्रहः ॥२०१|| पातथाहि जम्बूद्वीपेऽस्मिन्महाविदेहभूषणे । विजये पुष्कलावत्यामस्ति पू: पुण्डरीकिणी ॥२०२।। महापद्मो नृपस्तत्र तस्य पद्मावती प्रिया । पुण्डरीक-कण्डरीको तयोः पुत्रौ बभूवतुः ॥२०३|| अन्यदा नलिनवनोपवने समुपेयुषाम् । साधूनां सन्निधौ धर्मं महापद्मपोऽशृणोत् ॥२०४।। न्यस्य राज्ये पुण्डरीकं महापद्मोऽग्रहीद् व्रतम् । उत्पन्नकेवलः कर्मक्षयान्मोक्षमगात् क्रमात् ॥२०५।। साधवः पुण्डरीकिण्यां तेऽन्यदा पुनराययुः । पुण्डीक-कण्डरीको धर्मं शुश्रुवतुस्ततः ॥२०६।। तत्र भावयतिर्भूत्वा पुण्डरीको गृहं ययौ । समक्षं मन्त्रिणां चैवं कण्डरीकमभाषत ॥२०७|| इदं वत्स ! समादत्स्व राज्यं पैतृकमुच्चकैः । भवाद् भीतो ग्रहीष्यामि दीक्षां तद्भयरक्षिणीम् ॥२०८॥ प्रत्यूचे कण्डरीकोऽपि किं पातयसि मां भवे ? । तदहं प्रव्रजिष्यामि तरिष्यामि भवार्णवम् ॥२०९।। ततो द्विस्त्रिश्च राज्यार्थे राज्ञोक्तं नाऽकरोद्यदा । तदा व्रतेऽनुजज्ञे स शिष्टश्चैवं हितैषिणा ॥२१०॥ दुर्जयानीन्द्रियाणीह चञ्चलं च सदा मनः । विकारधाम तारुण्यं प्रमादः सहजो नृणाम् ॥२११॥ परीषहोपसर्गाश्च दुःसहा वत्स ! तत्त्वया । भाव्यं दृढप्रतिज्ञेन प्रव्रज्या दुष्करा खलु ॥२१२॥ यदि वा श्रावकधर्मं राज्यं च परिपालय । अतीते यौवने दीक्षामाददीथास्तदोचिताम् ॥२१३।। कण्डरीकोऽप्युवाचैवं सत्यमेतत्तथापि हि । प्रजल्पितं विधातव्यं प्रव्रजिष्यामि निश्चितम् ॥२१४|| प्रावाजीत् कण्डरीकोऽथ पुण्डरीकस्तु भूपतिः । व्रतान्निषिद्धः सचिवैस्तस्थौ भावयतिर्गृहे ॥२१५|| कण्डरीकोऽपि विविधैस्तपोभिः क्लिष्टविग्रहः । सामाचारीपालनतः साधूनामभवत् प्रियः ॥२१६।। पावसन्तसमयेऽन्येधुर्जुम्भमाणे मनोऽचलत् । महर्षेः कण्डरीकस्य चारित्रावरणोदयात् ॥२१७|| अचिन्तयच्च पर्याप्तं मम प्रव्रज्ययाऽनया । गत्वा राज्यमुपादास्ये भ्रात्रा दत्तं पुराऽपि यत् ॥२१८|| इत्यागात् पुण्डरीकिण्यां स्थित्वोद्याने तरौ क्वचित् । पात्राद्यालम्ब्य हरितनस्तरे शीतलेऽलुठत् ॥२१९।। उद्यानपालेनाऽऽत्मानं स राज्ञेऽज्ञापयद् द्रुतम् । सप्रधानो नृपस्तत्राऽभ्यागत्य तमवन्दत ॥२२०॥ वृक्षबद्धोपकरणो हरित्कायस्थ एककः । मन्येऽसौ व्रतनिविण्ण इति ज्ञात्वाऽब्रवीन्नृपः ॥२२१।। पाभोः ! भोः ! सर्वे स्मरथ किं यन्मे वारयतोऽमुना । तदा गृहीतं श्रामण्यं बालेन रभसावशात् ? ॥२२२।। इत्युदित्वा पुण्डरीकः कण्डरीकं तदथिते । राज्ये निवेशयामास राज्यचिह्नानि चाऽऽर्पयत् ॥२२३।। पुण्डरीकनृपस्तस्माद्यतिलिङ्गान्युपाददे । स्वयमात्तपरिव्रज्यः शुद्धधीर्व्यहरत्ततः ॥२२४॥ पाभग्नव्रतः कृशो रङ्क इवाऽन्नार्थीति सेवकैः । हस्यमानः कण्डरीकश्चुकोप हृदयेऽधिकम् ॥२२५।। १. किडिति खं. १-४ । २. वक्तुमप्यशक्ताः किन्तु आत्म-सत्त्वबलेनैव विहरन्तः । ३. गौतमस्य देहस्थूलतां विचारयन् । ४. गौतमस्य वचनं स्वस्यैव तस्य शरीरेण समं विरुध्यते इति विचार्य सोऽहसत् । ५. दुर्जयाणी खं. १-४ । ६. ०माणो खं. १ । ७. ०भवत् खं. १ । ८. हरिततृणाङ्करमयभूमौ ।

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280