Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 156
________________ १३२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यगुम्फितं [दशमं पर्व भुञ्जेऽहं प्रथमं तावत् पश्चादेषां प्रहासिनाम् । करिष्यामि वधादीति चिन्तयन् स गृहं ययौ ॥२२६।। जघन्य-मध्यमो-त्कृष्टस्त्रिधाऽऽहारो यदृच्छया । प्रातः कपोतयूनेव तेनाऽऽकण्ठमभुज्यत ॥२२७।। भोगजागरणाद् रात्रावत्याहाराच्च दुर्जरात् । जज्ञे विसूचिका तस्य महत्यरतिरप्यभूत् ॥२२८।। उत्फुल्लमुदरं तस्य भस्त्रेवाऽनिलपूरिता । निरुद्धः पवनस्तृष्णादाहश्च समभून्महान् ॥२२९।। भ्रष्टप्रतिज्ञः पापोऽसाविति ध्यात्वा नियोगिभिः । अकारितचिकित्सोऽथ सोऽतिमानित्यचिन्तयत् ॥२३०॥ कथञ्चिद्यद्यमूं रात्रिमत्येष्यामि तदा प्रगे । सकुटुम्बान् हनिष्यामि सर्वानेतान्नियोगिनः ॥२३१।। एवं च कृष्णलेश्यावान् रौद्रध्यानी व्यपादि सः । उदपाद्यप्रतिष्ठाने नारकः सप्तमावनौ ॥२३२॥ पादिष्ट्या चिरेष्टो लब्धो यो धर्मस्तं गुरुसाक्षिकम् । करोमीति पुण्डरीकोऽप्यचालीत् सद्गुरुं प्रति ॥२३३।। समीपे सुगुरोर्गत्वा पुनरादाय स व्रतम् । पारणामष्टमस्यान्ते पुण्डरीकमुनिर्व्यधात् ॥२३४॥ अतिवेलैः शीतरूखैराहारैः पीडितो मृदुः । भूचारविगलत्पादासृगुद्भूतपरिश्रमः ॥२३५॥ याचित्वोपाश्रयं ग्रामे निषण्णस्तुणसंस्तरे । गर्वन्ते प्रव्रजिष्यामि कदा न्विति विचिन्तयन ॥२३६।। विहिताराधनः सम्यक् शुभध्यानपरायणः । पीनाङ्गोऽपि विपन्नः सन् स सर्वार्थमुपेयिवान् ॥२३७।। तत् पीनत्वं कृशत्वं वा न प्रमाणं तपस्विनाम् । शुभध्यानं हि परमपुरुषार्थनिबन्धनम् ॥२३८|| पाएतदर्थं पुण्डरीकाध्ययनं गौतमोदितम् । जग्राहैकसंस्थयापि श्रीदेसामानिकः सुरः ॥२३९।। प्रतिपेदे स सम्यक्त्वं नत्वा वैश्रवणः पुनः । स्वाभिप्रायपरिज्ञानान्मुदितः स्वाश्रयं ययौ ॥२४०॥ पाएवं देशनया स्वामी गौतमोऽतीत्य तां निशाम् । प्रभाते चोत्तरन् शैलात् तापसैस्तैरदृश्यत ॥२४१।। तापसास्तं प्रणम्योचुर्महात्मंस्तपसां निधे ! । तव शिष्यीभविष्यामस्त्वमस्माकं गुरुभव ॥२४२।। तानूचे गौतमस्वामी गुरुर्मे परमेश्वरः । सर्वज्ञोऽर्हन्महावीरः स एव गुरुरस्तु वः ॥२४३|| अथ तानाग्रहपरान् दीक्षयामास गौतमः । सद्यो देवतया तेषां यतिलिङ्गं समर्पितम् ॥२४४॥ गौतमेन समं चेलुर्गन्तुं ते स्वामिनोऽन्तिके । सह यूथाधिपतिना विन्ध्याद्रौ कुञ्जरा इव ॥२४५।। पापथ्येकस्मिन् सन्निवेशे भिक्षाकाले गणाग्रणी: । किं वः पारणकायेष्टमानयामीत्युवाच तान् ॥२४६।। तैश्च पायसमित्युक्ते गौतमो लब्धिसम्पदा । स्वकुक्षिपूरणमात्रं पात्रे कृत्वा तदानयत् ॥२४७|| इन्द्रभूतिर्बभाषे तान्निषीदत महर्षयः ! । पायसेनाऽमुना यूयं सर्वे कुरुत पारणम् ॥२४८।। पायसेनेयता किं स्यात्तथापि गुरुरेष नः । एवं विमृश्य ते सर्वे मुनयः समुपाविशन् ॥२४९।। तान् महानसलब्ध्येन्द्रभूतिः सर्वानभोजयत् । स्वयं तु बभुजे पश्चात्तेषां जनितविस्मयः ॥२५०॥ दिष्ट्या धर्मगुरुवीरः प्राप्तोऽस्माभिर्जगदगुरुः । पितृकल्पो मुनिश्चैष बोधिश्चाऽत्यन्तदुर्लभा ॥२५१|| सर्वथा कृतपुण्याः स्म इति भावयतामभूत् । भुञ्जानानां केवलं द्राक् तत्र सेवालभक्षिणाम् ॥२५२।। जज्ञे च प्रातिहार्याणि दादीनां प्रपश्यताम् । कौण्डिन्यादीनां श्रीवीरं केवलज्ञानमुज्ज्वलम् ॥२५३॥ १. गृहे खं. १ विना । २. विशू० खं. १-४ । विषू० खं. ३ । ३. सेवकैः । ४. ०वनिम् खं. १ । ५. सद्गुरो० खं. ३-४ । ६. श्रलोकोऽयं न खं. १ । ७. मुक्तपादत्राणाभ्यां पादाभ्यां भुवि चरणेन विगलत्पादाभ्यां निर्गतशोणितो जातश्रमश्च । ८. एकाग्रभावेन । ९. श्रीदः खं. १ । कुबेरस्यैक: सामानिको देवः । १०. गौतमः खं. १-३ । ११. शेवाल० खं. १ । १२. प्रातिहार्याणि पश्यतां दत्तादीनां श्रीवीरं च पश्यतां कौण्डिन्यादीनां केवलज्ञानं जज्ञे इत्यन्वयः । १३. दिन्ना० खं. १-३ ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280