Book Title: Trishashtishalakapurushcharitammahakavyam Parva 10
Author(s): Hemchandracharya, Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 137
________________ अष्टमः सर्गः] श्रीत्रिषष्टिशलाकापुरुषचरितम् । ११३ प्रत्याख्यत् स विना भद्रां स्त्रीजान् षड्व्रजी विना । निधौ वृद्धौ व्यवहारे षट् षट् कोटीविना वसु ॥२७३|| शेषं च वस्तुनियममानन्द इव सोऽग्रहीत् । ततः प्रभुं नमस्कृत्य ययौ निजनिकेतनम् ॥२७४।। स्वयमात्ते श्रावकत्वे तेनाऽऽख्याते च तत्प्रिया । भद्राऽप्युपेत्य जग्राह स्वाम्यग्रे श्रावकव्रतम् ॥२७५॥ पाइतश्च काशिर्नाम्नाऽनुगङ्गमस्ति पुरी वरा । विचित्ररचनारम्या तिलकश्रीरिवाऽवनेः ॥२७६। सुत्रामेवाऽमरावत्यामविसूत्रितविक्रमः । जितशत्रुरभूत् तत्र धरित्रीधवपुङ्गवः ॥२७७।। आसीद् गृहपतिस्तस्यां महेभ्यश्चुलनीपिता । प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ॥२७८।। जगदानन्दिनस्तस्याऽनुरूपा रूपशालिनी । श्यामा नामाऽभवद्भार्या श्यामेव तुहिनद्युतेः ॥२७९॥ अष्टौ निधानेऽष्टौ वृद्धावष्टौ च व्यवहारगाः । इति तस्याऽभवन् हेम्नश्चतुर्विंशतिकोटयः ॥२८०॥ एकैकशो गोसहस्रैर्दशभिः प्रमितानि तु । तस्याऽऽसन् गोकुलान्यष्टौ कुलवेश्मानि सम्पदाम् ॥२८१।। पातस्यां पुर्यामथाऽन्येधुरुद्याने कोष्ठकाभिधे । भगवान् समवसृतो विरहंश्चरमो जिनः ॥२८२।। ततो भगवतः पादवन्दनाय सुरासुराः । सेन्द्राः समाययुस्तत्र जितशत्रुश्च भूपतिः ॥२८३।। पद्भयां चचाल चुलनीपिताऽप्युचितभूषणः । वन्दितुं नन्दितमनाः श्रीवीरं त्रिजगत्पतिम् ॥२८४|| भगवन्तं ततो नत्वोपविश्य चुलनीपिता । शुश्राव परया भक्त्या प्राञ्जलिर्धर्मदेशनाम् ॥२८५।। पाअथोत्थितायां सदसि प्रणम्य चरणौ प्रभोः । इति विज्ञपयामास विनीतश्चुलनीपिता ॥२८६।। स्वामिन्नस्मादृशां बोधहेतोविहरसे महीम् । जगद्बोधं विना नाऽन्यो ह्यर्थश्चंक्रमणे वेः ॥२८७।। सर्वोऽपि याच्यते गत्वा स दत्ते यदि वा न वा । आगत्याऽयाचितो धर्मं दत्से हेतुः कृपाऽत्र ते ॥२८८।। जानामि यतिधर्मं चेद् गृह्णामि स्वामिनोऽन्तिके । योग्यता परमियती मन्दभाग्यस्य नास्ति मे ॥२८९।। याचे श्रावकधर्मं तु स्वामिन् ! देहि प्रसीद मे । आदत्तेऽब्धावप्युदङ्को भरणं निजमेव हि ॥२९०|| यथासुखं गृहाणेति स्वामिनाऽनुमतस्ततः । प्रतिपेदे श्रावकार्हं धर्मं द्वादशधाऽपि सः ॥२९१॥ अष्टाष्टाकोट्यभ्यधिकं स्वर्णं निध्यादिषु त्रिषु । व्रजेभ्योऽन्या थाऽष्टभ्यः प्रत्याचख्यौ व्रजानपि ॥२९२।। नियमं चाऽन्यवस्तूनां कामदेव इवाऽऽददे । श्यामा तत्पत्न्यपि स्वामिसमीपे श्रावकव्रतम् ॥२९३।। पातदा च गौतमो नत्वा पप्रच्छेति जगत्पतिम् । महाव्रतधरः किं स्यान्न वाऽयं चुलनीपिता ? ॥२९४|| अथोचे स्वामिना नैष यतिधर्मं प्रपत्स्यते । गृहिधर्मरतः किं तु मृत्वा सौधर्ममेष्यति ॥२९५।। असगाभे विमाने च चतुःपल्योपमस्थितिः । ततश्रच्युत्वा विदेहेषूत्पद्य निर्वाणमेष्यति ॥२९६।। पातत्रैवाऽऽसीत् सुरादेवो गृही धन्या च तत्प्रिया । आसीत्तस्य हिरण्यादि पुष्कलं कामदेववत् ॥२९७|| स कामदेववद् गत्वा स्वाम्यग्रे श्रावकव्रतम् । नियमांश्चाऽग्रहीत् सार्धं धन्यया धर्मधन्यया ॥२९८।। पाततश्च विहरन् स्वामी पुरीमालभिकां ययौ । तत्र शङ्खवनोद्याने भगवान् समवासरत् ॥२९९|| पुर्यां तत्राऽभवच्चुल्लशतिको नामतो गृही । कामदेवसमस्त्वृद्ध्या बहलेति च तत्प्रिया ॥३००।। १. कासि० खं. १-२-३-४ । २. इन्द्रः । ३. अखण्डितपराक्रमः । ४. कुबेर इव । ५. चन्द्रस्य रात्रिरिव । ६. ०वेश्माति खं. ४ । ७. उदको घृततैलादिभरणयोग्यश्चर्मपात्रविशेषः । ८. ०भ्योऽन्यांस्तथाऽष्टभ्यः खं. ३-४ । ९. बहुले० मु. ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280