Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
पूज्यपादविरचिता
भवव्यसङ्कटे धर्म एव शरणं सुहृदर्थाऽप्यनपायी, नान्यद किञ्चिच्चरणमिति भावना अशरणानुप्रेक्षा । एवं ह्यस्याध्यव - स्वतो नित्यमरणोऽस्मीति भृशमुद्विग्नस्य सांसारिकेषु भावेषु ममत्वनिरासो भवति । भगवदत्सर्वज्ञप्रणीत एव मार्गे प्रतिपत्रो भवति || २ ||
15
+
संसारभावना - कर्मविपाकवशादात्मनो भवान्तरावाप्तिः संसारः । स पुरस्तात् पञ्चविपरिवर्तनरूपेण व्याख्यातः । तस्मिक योनि कुल कोटिबहुशतसहस्रसङ्कटे संसारे परिभ्रमन् जीवः कर्मयन्त्रानुप्रेरितः पिता भृत्वा भ्राता पुत्रः पौत्रश्च माता भूत्वा मगिनी भार्या दुहिता च भवति । स्वामी भृत्वा दामो भवति । दासो भृत्वा स्वाम्यपि भवति, नट इव रङ्ग । अथवा किं बहुना स्वयमात्मनः पुत्रो भवतीत्येवमादिसंसारस्वभावचिन्तनं संसारानुप्रेक्षा । एवं ह्यस्य भावयतः संसार- दुःखभयादुद्विग्नस्य ततो निर्वेदो भवति । निर्विण्णश्च संसारप्राणाय प्रतियतते ||३||
२८२
एकत्वभावना - जन्मजर रामरणानुवृत्तिमहादुःखानुभवं प्रति एक एवाऽहं न कश्चिन्मे स्वः यसे वा विद्यते । एक एव जायेऽहम् । एक एव प्रिये । न मे कश्चित् स्वजनः परजनो वा व्याधिजरामरणादीनि दुःखान्यपहरति । बन्धुमित्राणि श्मशानं नातिवर्तन्ते । धर्म एव मे सहायः सदा अनपायीति चिन्तनमेकत्वानुप्रेक्षा । एवं ह्यस्य भावयतः स्वजनेषु प्रीत्यनुबन्धो न

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331