Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
द्वाविंशतिषरोषहाः
२२७ तस्मिन् स्निग्धविरुद्ध भोजनाला, 55तापादिपुष्यत्तृषां । रत्यक्त निस्पृहतामृतेन कृतधी३, मुष्णाति तृष्णाजयः ।।३।। २ परित्यक्तवस्तुनि । ३ कृते पुण्ये घोर्बुद्धिर्यस्य । ४ अपहरति ।
३ शीतपरीषहः प्रोत्कम्पाहिमभीमशीनपवन, स्पर्शप्रभिन्नाङ्गिनो' । २यस्मिन् यान्त्यतिशीतखेदमवशाः, प्रालेयकालेऽङ्गिनः ।। तस्मिन्नस्मरतः पुरा प्रियतमा,-श्लेषादिजातं सुखं, योगागारनिरस्तशीतविकते, इनिर्वाससस्तज्जयः ।।४|| १ स्फुटितावयवाः । २ शिशिरकाले। ३ निग्नंन्यस्य । ४ शीतपरीषहजयः।
४ प्रलपरीषहः प्राणाघातविभीतिनस्तनुरति, त्यागाच भोगास्पृहः । स्नानोदर्शनलेपनादिविगमात् प्रस्वेदपांवदितम् ।। लोकानिष्टमनिष्टमात्मवपुष, यामादिमूलं मलं ।
गात्रत्राणमिवादधाति जिनं५, जेतुं मलक्लेशजित् ।।५।। १ प्राणिहिंसा । २ भोगेष्वस्पृहा यस्य स भोगास्पृहः । ३ धर्मधुलि जातम् । ४ कवचं । ५ पापं । ६ स इत्यध्याहारः ।
५ उष्णपरीषहः ग्रीष्मे शुष्यदशेषदेहिनिकरे, मार्तण्डचण्डांशुभिः । सन्तप्तात्मतनुस्तृषानशनरुक्लेशादिजातोष्णजं ।। शोषस्वेदविदाहखेदरअवशे, नाप्तं पुराऽपि स्मरन् | तन्मुक्त्यै निजभावभावनरतिः, स्यादुष्णजिष्णुवती ।।६।। १ तालुशोषण । २ परवशेन । ३ स्वस्वरूपं ।

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331