Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
२६६
द्वाविंशतिपरीषहाः
.
तपोविशेषर्धियोगेऽपि शरीरनिस्पृहत्वाद व्याधिप्रतीकारानपेक्षिणः फलमिदमनेनोपायेनानृणी भवामीति चिन्तयतो रोगसहना१६॥
तृणस्पर्श परीषहः-तृणग्रहणमपलक्षणं तेन शुष्कतणपत्रभूमिकण्टकफलकशिलादिषु प्रासुकेवसंस्कृतेषु व्याधिमार्गशीतादिजनितश्रमविनोदार्थ शय्यां निषा का भजमानस्य गमनमकुर्वतः शुष्कतृणपरुपशर्कराकण्टकनिशितमृतिकादियाधितमूर्तेहत्यबकण्ड विकारस्य दुखं मनस्यचिन्तयतस्तुणस्पर्शसहनं ॥१७॥
मलपरीषहः---रविकिरणजनितप्रस्वेदलवसंलग्नपांसुनिचयस्य सिध्माकच्छदद्रुभूतकायत्वादुत्पभायामपि कण्डवों कण्डयनमर्दनादिरहितस्य स्नानानलेपना दिकमस्मरतः स्वमलापचये परमलोपचये चाप्रणिहिनमनसो मलधारणं केशलुञ्चासंस्काराभ्यामुत्पबखेदसहनं मलसामान्यसहनेऽन्तर्भवतीति न पृथगुक्तं ।।१८।। सत्कारपुरस्कारपरीषहः
सत्कारः पूजाप्रशंसात्मकः पुरस्कारः क्रियारम्भादिष्वग्रतः करणं चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयज्ञस्य हितोपदेशकथामार्गकुशलस्य बहुतत्त्वपरवादिविजयिनः प्रणामभक्तिसंभ्रमासनप्रदानादीनि न मे कश्चित् करोति वरं मिथ्यादृशः स्वसमयगतमज्ञमपि सर्वज्ञसम्भावनया सन्मान्य स्वसमयप्रभावानां कुर्वन्ति व्यन्तरादयः पुराऽन्युप्रतपसा प्रत्युग्रपूजा निवर्तयन्तीति यदि न मिध्याश्रुतिस्तदा कस्मादस्माऽशा एते समयगता अनादरं कुर्वन्ति इति प्रणिधानरहितचित्तस्य

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331