Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
साम्यप्रकरणम्
अघातीनि हत्वा बभूव प्रमुक्तः । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ||२४
अथामन्द मानन्द माद्यन्तहीनम् । निजात्मप्रजातं हयनक्षं समक्षम् ॥ चिरं यश्च भेजे निजे नैजरूपम् । स वीरः प्रवीरः प्रमोदं प्रदद्यात् ||२५|| इति महावीरस्तवनम्
साम्यप्रकरणम्
मोमिपाकर्तुं स्वीकर्तुं संयमश्रियम् । छेचु रागद्रुमोद्यानं समत्वमवलम्बताम् ||१||
३१७
साम्यसाधनमाह्
चिदचिलक्षण मारिष्टानिष्टतया स्थितः । न मुह्यति मनो यस्य तस्य साम्ये स्थितिर्भवेत् ||२|| तनुप्रय विनिर्मुक्त दोषत्रयविवर्जितम् ।
यदा वेस्यात्मनात्मनं तदा साम्ये स्थितिर्भवेत् ||३|| मोहपक्क परिक्षीणे शीर्णे रागादिबन्धने । नृणां हृदि पदं धत्ते साम्यश्रीर्विश्ववन्दिता ||४|| सौधोत्सङ्ग श्मशाने स्तुतिशपनविध कर्दमे कुङ्कुमे वा । प कण्टकाग्रे दृषदि शशिमणौ चर्मचीनांशुकेषु || शीर्णाङ्ग दिव्यनार्यामसमशमवशाद् यस्य चित्तं विकल्पैः । नालीढं सोऽयमेकः कलयति कुशलः साम्यलीलाविलासम् ॥ ५॥

Page Navigation
1 ... 326 327 328 329 330 331