Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
साम्यप्रकरणम्
एक: पूजां रचयात नतः पारिजातप्रसनः । कुद्धः कण्ठे क्षिपति भुजगं हन्तुकामस्ततोऽन्यः ।। तुल्या धृत्तिभवति च तयोर्यस्य नित्यं स योगी । साम्याराम विशति परमज्ञानिदत्तावकाशम् ।।६।। रागादिविपिनं भीम मोहशार्दूलपालितम् | दग्धं मुनिमहावीर : साम्य घूमध्वजार्चिषा | यः स्वभावोस्थितां साध्वीं विशुद्धि स्वस्य वाञ्चति । स धारयति पुण्यात्मा समत्वाधिष्ठितं मनः ।।८।। साम्यकोटि समारूढो यमी जयति फर्म यत । निमेषान्तेन तज्जन्म कोटिभिस्तपसेतरः ।।९।। शाम्यन्ति जन्तवः करा बद्धवैराः परस्परम् । अपि स्वार्थप्रवृत्तस्य मुनेः साम्यप्रभावतः।। १०॥ भजन्ति जन्तवो मंत्र्यमन्योऽयं त्यक्तमत्सराः । समत्वालम्बिनां प्राप्य पादपद्यार्चिता क्षितिम् ||११|| चलत्यचलमालयं कदाचिद देवदोपतः । नोपसगैरपि स्वान्तं मुनेः साम्यप्रतिष्ठितम् ॥१२॥ उन्मत्तमथ विभ्रान्त दिग्मूढं सुप्तमेव वा । साम्यस्थस्य जगत्सव योगिनः प्रतिभासते ।।१३।। साम्यमेव परं ध्यान प्रणीत विश्वदर्शिभिः । तस्यैव व्यक्तये नूनं मन्येऽयं शास्त्रविस्तरः ॥१४|| वाचस्पतिरपि व ते यद्यजन समाहितः । वक्त तथाऽपि शक्नोति न हि साम्यस्य वैभवम् ।।१||
इति साम्यप्रकरणम्

Page Navigation
1 ... 327 328 329 330 331