Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain
View full book text
________________
३१४
महावीरस्तवनम् सर्व कालकरालकण्ठकलित सर्वत्र संदृश्यते ।। इत्थं भोगशरीरशून्यहृदयो यः काननेष्वातपत । स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ।।८।। यस्य ज्ञानदिवाकरेण दलितं संतामसं संततम् । नो लेभे वसुधातले क्वचिदपि स्थानं भ्रममन्ततम् । लोकालोक पदार्थ बोधनकरः सद्देशनातत्परः । स श्रीवीरबरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ।।९।। ध्यानासिाहताखिलारिनिचयः स्वाधीनता प्राप्नुवन् । स्वच्छाकाशनिकाशचेतनगुणं चासाद्य य: स्वात्मना । लेभेऽनन्तमनश्वरं सुखवरं स्वान्मोद्भवं स्वात्मनि ।। स श्रीवीरवरो वितुङ्गहृदयः पायात्सदा नः प्रभुः ।।१०।।
मालिनीछन्दः उदधिरिष गभीरः पापधूलीसमीरः । सकलमनुजहीरः कर्मशवप्रवीरः ॥ विपदि परमधीस प्राप्तजन्याब्धितीरः । जयति जयति वीरस्तीर्णदुःखाँधनीरा ।।११।। निखिलगुणनिधानं सर्वलोकप्रधानम् । बिहतविधिवितानं संगतं सनिधानम् ।। विहितहितवितानं व्याप्तसत्कीर्तिमानम् । जगति सुगुणधानं वीरमीडेऽघहानम् ।।१२।। दुरिततरुकुठारः पुण्यपुअग्रहारः । शिवनगरविहारः शुद्धतत्त्वेकसारः ॥

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331