Book Title: Stotradisangrah
Author(s): Ajitsagarsuri
Publisher: Ladmal Jain

View full book text
Previous | Next

Page 306
________________ २६५ द्वाविंशतिपरीपहा: त्यक्तपरिवर्तनपलायनस्य शार्दूलादिसहितोऽयं प्रदेशोऽचिरादतो निर्गमः श्रेयान् कदा रात्रिं विरमतीत्यकृत विषादस्य मृदुशयनमस्मरतः शयनादप्रच्यवतः शय्यासहनं ॥ ११ ॥ आक्रोशपरीषहः - परं भस्मासात् कर्तुं शक्तस्याप्यनिष्टवचनानि शुज्यतः परमार्थावहितचेतसः स्वकर्मणो दोषं प्रयच्छतोऽनिष्टवचनसहनमा कोशजयः ।।१२। बधपरीषहः — चौरादिभिः क्रुद्धे शस्त्राग्न्यादिभिर्यमाणस्याप्यनुत्पन्नवैरस्य मम पुराकृतकर्मफलमिदमिति इमे बराका किं कुर्वन्ति शरीरमिदं स्वयमेव विनश्वरं दुःखदमेतैर्हन्यते न ज्ञानादिकर्म इति भावयतो वधपरीपक्षमा ||१३|| याचनापरीषहः — क्षदध्वश्रमतपोरोगादिभिः प्रच्यावितवीर्यस्यापि शरीरसंदर्शनमात्रव्यापारस्य प्राणात्यये प्याहारवसतिभेषजादीनभिधानमुखवैवर्ण्याङ्गसंज्ञादिभिरयाचमानस्य याचन सहनं || १४ || अलाभपरीषहः -- एकभोजनस्य मूर्तिमात्र दर्शनपरस्यैकत्र ग्रामे अलब्ध्या ग्रामान्तरान्वेषणनिरुत्सुकस्य पाणिपुटपात्रस्य बहुदिवसेषु बहुषु च गृहेषु भिक्षामनवाप्यापि मसंक्लिष्टचेतसो व्यपगतदातृविशेषपरीक्षस्य लाभादप्यलाभो मे परं तप इति सन्तुष्टस्य अलाभविजयः || १५ || रोगपरीषहः – स्वशरीरमन्यशरीरमिव मन्यमानस्य शरीरयात्राप्रसिद्ध व्रणलेपवदाहारमाचरतो जन्लोपधाद्यनेक

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331