SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ पूज्यपादविरचिता भवव्यसङ्कटे धर्म एव शरणं सुहृदर्थाऽप्यनपायी, नान्यद किञ्चिच्चरणमिति भावना अशरणानुप्रेक्षा । एवं ह्यस्याध्यव - स्वतो नित्यमरणोऽस्मीति भृशमुद्विग्नस्य सांसारिकेषु भावेषु ममत्वनिरासो भवति । भगवदत्सर्वज्ञप्रणीत एव मार्गे प्रतिपत्रो भवति || २ || 15 + संसारभावना - कर्मविपाकवशादात्मनो भवान्तरावाप्तिः संसारः । स पुरस्तात् पञ्चविपरिवर्तनरूपेण व्याख्यातः । तस्मिक योनि कुल कोटिबहुशतसहस्रसङ्कटे संसारे परिभ्रमन् जीवः कर्मयन्त्रानुप्रेरितः पिता भृत्वा भ्राता पुत्रः पौत्रश्च माता भूत्वा मगिनी भार्या दुहिता च भवति । स्वामी भृत्वा दामो भवति । दासो भृत्वा स्वाम्यपि भवति, नट इव रङ्ग । अथवा किं बहुना स्वयमात्मनः पुत्रो भवतीत्येवमादिसंसारस्वभावचिन्तनं संसारानुप्रेक्षा । एवं ह्यस्य भावयतः संसार- दुःखभयादुद्विग्नस्य ततो निर्वेदो भवति । निर्विण्णश्च संसारप्राणाय प्रतियतते ||३|| २८२ एकत्वभावना - जन्मजर रामरणानुवृत्तिमहादुःखानुभवं प्रति एक एवाऽहं न कश्चिन्मे स्वः यसे वा विद्यते । एक एव जायेऽहम् । एक एव प्रिये । न मे कश्चित् स्वजनः परजनो वा व्याधिजरामरणादीनि दुःखान्यपहरति । बन्धुमित्राणि श्मशानं नातिवर्तन्ते । धर्म एव मे सहायः सदा अनपायीति चिन्तनमेकत्वानुप्रेक्षा । एवं ह्यस्य भावयतः स्वजनेषु प्रीत्यनुबन्धो न
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy