Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 27
________________ प्रथमः प्रस्तावः । ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तत्रान्विष्य मिलित्वा च भवामि सुखभागिनी ॥ १८ ॥ अथान्येद्युरुवाचाम्बां हे मातर्जनको मम । एकवारं यथा वाक्यं शृणोति त्वं तथा कुरु ॥ २० ॥ तां दृष्ट्वाऽनादरपरामन्येद्युः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थं कृताञ्जलिः ॥ २१ ॥ सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञापयामास प्रस्तावे वदतां वरः ॥ २२ ॥ नृनाथ भवता मान्यचरी सम्प्रत्यसम्मता । वराको वर्त्तते कष्टे सैषा' त्रैलोक्यसुन्दरी ॥ २३॥ अस्याः संमानदानादि दूरेऽस्त्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् ॥ २४ ॥ पार्थिवोऽप्यश्रुपूर्णतः प्रोचे सिंह पुराभवे । अनया विहितं किञ्चिदभ्याख्यानादि दुष्कृतम् ॥ २५ ॥ तदियं तत्प्रभावेन कलङ्गिततनूरभूत् । दृष्टाऽप्यनिष्टतां प्राप्ता गाढमस्माकमप्यहो ॥ २६ ॥ वाक्यं तदद्य यत्किञ्चिदनयाऽस्ति विवक्षितम् । तद् ब्रवीतु न रुष्टैरप्यात्मीयः परिभूयते ॥ २७ ॥ ततस्तदनुमत्यैत्य तत्र त्रैलोक्य सुन्दरी । उवाच तात मे वेषं कुमारोचितमर्पय ॥ २८ ॥ (१) ख ग घ ङ च छ ऽस्य । (२) कष्टेष I ग ङ छ क २३

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104