Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 97
________________ टतीयः प्रस्तावः । ३ मुनिर्जगो कोप-मान-माया-लोभाभिधा इमे । चत्वारः स्युस्तथाऽमीषां भेदाः प्रत्येकशोऽप्यमी ॥ २० ॥ आद्योऽनन्तानुबन्ध्यत्राप्रत्याख्यानो द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु तुर्यः संज्वलनाभिधः ॥ २१ ॥ निश्चलोऽचलरेखेव दारुणो दुःखदायकः । भवेत्तत्रादिमो राजन् कोपोऽनन्ताऽनुबन्धकः ॥ २२ ॥ पृथ्वीरेखासमोऽप्रत्याख्यानो नाम्ना द्वितीयकः । प्रत्याख्यानस्तृतीयस्तु रेणुरेखासमो मतः ॥ २३ ॥ तुर्य: संज्वलनो नौररेखातुल्यः प्रकीर्तितः । एवं मानोऽयस्थिकाष्ठटणसस्तम्भसनिमः ॥ २४ ॥ माया वंशोमषशृङ्गगवांमूत्रावलेहवत् । लोभः कमिरागपनाञ्जनहारिद्ररागवत् ॥ २५ ॥ जन्मवर्षचतुर्मासीस्थितयः स्युः क्रमात्चयः । तुर्य: पक्षस्थितिस्ते च खधादिगतिहेतवः ॥ २६ ॥ एवं कषायास्ते राजन् षोडशापि प्रकीर्तिताः । गाढसंरम्भविहिताः स्युर्यके गाढदुःखदाः ॥ २७ ॥ संरम्भेण विना स्तोकभवान् दु:खं ददत्यलम् । ततश्चाल्पेऽपि नो कार्याः कषाया नृपते त्वया ॥ २८ ॥ राजनल्पोयसोऽपि स्यात् दुष्कृतस्य फलं महत् । मित्रानन्दादिसत्त्वानां यथादृष्टं मनीषिभिः ॥ २८ ॥ मित्रानन्दादय: केऽमी इत्युक्तो भूभुजा पुनः । स्वयंप्रभमुनिः स्माह तत्कथा अयतामिति ॥ ३० ॥

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104