Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
तृतीयः प्रस्तावः ।
इतोऽस्य जम्बूद्दीपस्य पूर्व विदेहमध्यगे। विजये रमणीयाख्ये सुभगायां महापुरि ॥ १ ॥ वृत्तगाम्भीर्यमर्यादाश्रीगुणे जितसागरः । प्रौढप्रतापयुक्तोऽभूत् राजा स्तिमितसागरः ॥ २ ॥ (युग्मम्) भार्या वसुन्धरी तस्यानयशीलवसुन्धरा । हितोयाऽनुद्धरी नाम बभूव स्त्रीगुणाञ्चिता ॥ ३ ॥ दिव्यचूलः सुरः सोऽथ च्युत्वा प्राणतकल्पतः । राज: पत्नया वसुन्धर्या उदरे समवातरत् ॥ ४ ॥ गजपद्मसरश्चन्द्रवषस्वप्नास्तया तदा । चत्वारो हलभृज्जन्मसूचका वीक्षिताः शुभाः ॥ ५ ॥ समये सुषुवे साऽथ तनयं कनकप्रभम् । अपराजित इत्याख्यां चक्र तस्य पिता शुभम् ॥ ६ ॥ अन्यदाऽनुदरीकुक्षौ सरसीव सितच्छदः । समुत्पन्नः सुतत्वेन मणिचलो दिवश्चयत: ॥ ७॥ सिंहाकुम्भसिन्धुश्रीरत्नोच्चयहुताशनान् । प्रविशतो मुखेऽद्राक्षीत् सप्त स्वप्नानसौ तदा ॥८॥ कथयामास तान् भत्तुः सोऽपि पप्रच्छ तद्विदम् । सोऽवदत्ते सुतो विष्णुर्भावी स्वप्नैरिमैनृप ॥८॥

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104