Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
तृतीयः प्रस्तावः ।
८५
यः कश्चिदवनीनाथं जातयामं वदिष्यति। भविष्यति सकोऽवश्यमकालेऽपि यमातिथि: ॥ ४१ ॥ राजा प्रोवाच हे देवि किं ब्रवीष्यविवेकिवत् ।। जरैव मण्डनं यस्माद्भवेदस्मादृशां किल ॥ ४२ ॥ तहि श्याममुखा यूयं किमित्युक्ते तया. पुन: । । स तस्याः कथयामास स्वस्य वैराग्य कारणम् ॥ ४३ ॥ ततश्च तनयं राज्ये संस्थाप्य प्रियया सह । तापसीभूय राजाऽसौ वनवासमशिथियत् ॥ ४४ ॥ गूढगर्भा तु सा रानी प्रपन्ना तापसव्रतम्। . वईमाने तु गर्भेऽस्या अद्दिष्टोदरं क्रमात् ॥ ४५ ॥ किमेतदिति दृष्ट्वा च साऽऽचख्यौ तद्यथातथम् । पत्युः कुलपतेः सोऽपि व्रतदूषणभीरुकः ॥ ४६ ॥ : तापसोभिः पाल्यमाना समये सुषुवेऽथ सा। सुतं देवकुमाराभं शुभलक्षणशोभितम् ॥ ४७ ॥ तस्याश्चानुचिताहारादोगोऽभूदारुणस्तनौ । अचिन्तयंश्च दुःखार्त्तास्ते 'तपोधनतायसाः ॥ ४८ ॥ ग्रहिणामपि दुष्पालो बाल: स्याज्जननीमृते । तन्मातरि विपन्नायां कथं पाल्योऽयमभकः ॥ ४८ ॥ वणि गुज्जयिनीपुर्या वाणिज्येन परिभ्रमन् । तदा तत्राययौ देवधराख्यो देवयोगत: ॥ ५० ॥
(१) ख घ च तपोवन-।

Page Navigation
1 ... 97 98 99 100 101 102 103 104