Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 98
________________ ८४ श्रीशान्तिनाथ चरित्रे सुरसमसमानईि नानाऽद्भुतमनोहरम् । अस्तौहामरतिलकं नगरं भुवि विश्रुतम् ॥ ३१ ॥ रूपलक्ष्मयाऽतिशायिन्याऽभिभूतमकरध्वजः । मकरध्वजनामाऽभूत् भूपतिस्तत्र विक्रमी ॥ ३२ ॥ पत्नयां मदनसेनायां पद्मकेसरनामकः । तस्य पद्मसरःस्वप्नसूचितस्तनयोऽभवत् ॥ ३३ ॥ राज्ञः पत्नया तयाऽन्येद्युर्विवृण्वत्या शिरोरुहान् । विलोक्य पलितं दूत आगाद्देवेति जल्पितम् ॥ ३४ ॥ ततः संभ्रान्तचित्तस्य कुर्वाणस्य दिगीक्षणम् । भूयः पत्युस्तयाऽऽख्यातं पाण्डुकेशं प्रदर्शितम् ॥ ३५ ॥ दूतोऽयं धर्मराजेन प्रेषितः पलितच्छलात् । आगच्छति जरातत्यं कुरुष्वेति वदत्रिव ॥ ३६ ॥ ततश्च पार्थिवो दध्यौ मम पूर्वैर्महात्मभिः । अदृष्टपलितैरेव धर्मसेवा व्यधीयत ॥ ३७॥ धिग मां राज्यलुब्धं तु 'स्थितिविच्छेदकारिणम् । यस्य मे विषयासक्तस्यैव जातो जरागमः ॥ ३८ ॥ इति चिन्ताविषस्मास्यं पतिं दृष्ट्वा सनर्मवाक् । उवाचैवं पुना राज्ञो तद्भावाविदुरा सका ॥ ३८ ॥ नाथ त्वं वृदभावेन लज्जसे यदि सर्वथा । ततोऽहं कारयिष्यामि पटहोद्दोषणामिमाम् ॥ ४० ॥ (१, ख घ च मति-।

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104