Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
१०
श्रीशान्तिनाथ चरित्रे
एवं कुर्वति तेनोक्तो विदधे सोऽपि तत्तथा । विसिमि तु सार्थेगो दृष्ट्वा तिलकसुन्दरीम् ॥ ५८ ॥ भूयोऽपि चामुना पृष्टः शशंस धनदोऽप्यदः । सार्थवाह वणिक् जात्या भरतक्षेत्रवास्यहम् ॥ ६० ॥ चलितः कटाडीपं प्रति यानेन सप्रियः । भग्नं च वारिधी यानं ततोऽत्रागां प्रियान्वितः ॥ ६१ ॥ पतिता मप्रिया ह्यस्मिन् कूपे नौरेक्षणाकुला । अहमप्यपतं चास्याः स्नेहबद्धो भवे यथा ॥ ६२ ॥ जलान्तः पतितौ नावां तत्तीरे किन्तु भाग्यतः । तुष्टा ददौ च रत्नानि तत्र मे जलदेवता ॥ ६३ ॥ कथितं च तयैवं यत् यानमत्र समेष्यति । तत्राधिरुह्य गच्छेत्वं निजस्थानं सुखेन भोः ॥ ६४ ॥ कथितेयं निजा वार्त्ता सार्थवाह मया तव । त्वमप्यात्मकथां ब्रूहि यतः सख्यं प्रवर्द्धते ॥ ६५ ॥ सोऽवदद्देवदत्ताख्यो भरतादहमप्यहो ।
कटाहद्दीपमगमं चलितश्च गृहं प्रति ॥ ६६ ॥ तदेहि भद्र त्वमपि गच्छावः सममेव यत् । आरोपय निजं वस्तु मम याने प्रियां तथा ॥ ६७ ॥ धनदोऽप्यब्रवींदेवं कुरु सार्थपते यतः ।
षष्ठांशं ते प्रदास्यामि वस्तुनोऽस्य गृहं गतः ॥ ६८ ॥
(१) ख घ ङ च ततः ।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104