Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 76
________________ श्रीशान्तिनाथ चरित्र हृष्टः सोऽप्यनुमेने तदिति ध्यायन् यथा नृपम् । तोषयित्वा स्वदानेन करिष्यामि समीहितम् ॥ ७८ ॥ इतः स धनदस्तेन प्रक्षिप्तो जलधेर्जले । पूर्वभग्नस्य पोतस्य लेभे खण्डं विधेर्वशात् ॥ ७ ॥ गाढं तदुरसाऽऽश्लिष्य तुभ्यमाणस्तरङ्गकैः । पञ्चभिर्वासरैः प्राप्तः स्वपुरासन्न कूलकम् ॥ ८० ॥ हृष्टाशयो निजपुरं पश्यन्नूईमुखो दृशा । गिलितो गुरुमत्स्येन फलकेन सहैव सः ॥ ८१ ॥ दध्यौ च पतितो मत्स्यजठरे नरकोपमे। रे जीव देवदोषेण गाथां भावयतां ततः ॥ ८२ ॥ यहा पूर्वभवाचीर्ण कर्मदोषण केनचित् । पतत्यसौख्यं मय्येव च्छिद्रं जीर्ण वृताविव ॥ ८३ ॥ इति ध्यात्वा स सस्मार मणिमापनिवारकम् । तत्प्रभावन मस्योऽसौ ग्रहीतस्तत्र धीवरैः ॥८४ ॥ स्फाटिते जठरे तस्य दृष्टोऽसो तैः सविस्मयैः । प्रक्षालितश्च नीरेण कथितश्च महीपतेः ॥ ८५ ॥ राजाऽपि विस्मितमनास्तमानाय्यात्मसबिधी। पप्रच्छ किमिदं भद्राघटमानं तवाऽभवत् ॥ ८६ ॥ अयि कोऽसि कथं वा त्वं पतितोऽसि झषोदरे । इति सत्यं ममाख्याहि वर्त्तते कौतुकं महत् ॥ ८७ ॥ (१) ङ सुदानेन । (२) ग घ ङ च यानस्य ।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104