Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
द्वितीयः प्रस्तावः ।
धनदः स्माह गार्हस्थ्ये मम स्वामी भवानभूत् ।
भविष्यति यतित्वेऽपि संयोगोऽयं मनः प्रियः ॥ ३३ ॥ ततो राज्ञा सुतो राज्ये स्थापितः कनकप्रभः । धनदस्य सुतः श्रेष्ठिपदे चैव धनावहः ॥ ३४॥ ततः सार्द्धं महीभर्त्रा पितृभ्यां भार्यया तथा । उपाददे परिव्रज्यां धनदो गुरुसन्निधौ ॥ ३५ ॥ गृहीत्वा द्विविधां शिक्षां कृत्वा च विविधं तपः । मृत्वा सर्वेऽपि ते जग्मुः पुण्यात्मानः सुरालयम् ॥ ३६ ॥ ततश्चुत्वा मनुष्यत्वं प्राप्य श्रमणतां तथा । क्षेत्रे महाविदेहे ते संप्राप्ताः परमं पदम् ॥ ३७ ॥ ॥ इति मत्स्योदरकथा ॥
धनदस्य कथामेतां श्रुत्वा विद्याधराधिप । धर्मो निरन्तरं कार्यस्त्वयेत्यूचे मुनिः स तु ॥ ३८ ॥ तच्छ्रुत्वाऽमिततेजाः स गुर्वाज्ञां शिरसा दधत् । उत्थाय नमति स्मांद्री भूयोऽपि मुनिवर्ययोः ॥ ३८ ॥ चारणश्रमणौ तौ च समुत्पत्य विहायसा । तपोमाहात्मासम्पन्नौ जग्मतुः स्थान'मीप्सितम् ॥ ४० ॥ नरखेचरराजौ श्रीविजयामिततेजसौ ।
गमयामासतुः कालं तावथो धर्मतत्परौ ॥ ४१ ॥
तौ यात्रात्रितयं धन्यौ चक्रतुः प्रतिवत्सरम् । तत्र स्यात् शाश्वतं यात्रादयमेका त्वशाखती ॥ ४२ ॥
(१) च -मुत्तमम् ।
८७

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104