Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
८५
द्वितीयः प्रस्तावः। तद्धर्मदेशनां श्रुत्वा प्रतिबुद्धा स शुद्धधीः । सम्यक्त्वमूलं तत्पाखें ग्रहिधर्ममुपाददे ॥ १२ ॥ पुनः साधुं नमस्कृत्य स गतो निजमन्दिरम् । ट्रव्येण कारयामास जिनमन्दिरमुत्तमम् ॥ १३ ॥ पश्वाच्च चिन्तयामास बहुद्रव्यव्ययो मया । कृतो धर्मरसाधिक्यपराधीनतया कथम् ॥ १४ ॥ स एवं विगतोत्साहो भूत्वा कत्यपि वासरान् । ततो लोकानुरोधेनाकारयत्प्रतिमामपि ॥ १५ ॥ प्रतिष्ठा कारयामास तस्याश्च श्खेतभिक्षुभिः । न्यवारयज्जीवमारिं ददौ दानं यथोचितम् ॥ १६ ॥ पुनर्दध्यावहो धर्म बहुव्यव्ययं व्यधाम् । उपार्जितधनात्तुर्यभाग एवात्र युज्यते ॥ १७ ॥ फलं भावि नवाऽस्येति सन्देहो मे प्रवर्तते । शास्त्रे च यते स्तोकव्ययस्यापि फलं महत् ॥ १८ ॥ स एवं संशयानो पि चक्रे पूजादिसत्कियाम् । अन्येागृहमायातावपश्यच्च तपोधनी ॥ १८ ॥ स्वयमेती शुभाहारैरुत्थाय प्रत्यलाभयत् । गतयोच तयोश्चिन्तां चक्रे धन्योऽहमित्यमौ ॥ २० ॥ निद्राक्ष ये च यामिन्यामन्यदाऽचिन्तयत्युनः । अप्रत्यक्षफलेनेह कृतेन श्रेयसा हि किम् ॥ २१ ॥
(१) ग च ड -वः । (२) ग ङ च ड विधिपूर्वकम् ।

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104